Skip to main content
Search
Ch. 2 PT 2.425
Full Chapter
PT • Chapter 2: Canto 2

PT 2.425

Canonical Ref: PT 2.425
Sanskrit (Devanāgarī)
एवं तस्य प्रवदत आकर्ण-पूरित-शरासनो लुब्धकोऽप्युपागतः । तं दृष्ट्वा मूषकेण तस्य स्नायु-पाशस्तत्-क्षणात्खण्डितः । अत्रान्तरे चित्राङ्गः सत्वरं पृष्ठमवलोकयन्प्रधावितः । लघुपतनको वृक्षमारूढः । हिरण्यकश्च समीप-वर्ति बिलं प्रविष्टः । अथासौ लुब्धको मृग-गमनाद्विषण्ण-वदनो व्यर्थ-श्रमस्तं मन्थरकं मन्दं मन्दं स्थल-मध्ये गच्छन्तं दृष्टवान् । अचिन्तयच्च-यद्यपि कुरङ्गो धात्रापहृतस्तथाप्ययं कूर्म आहारार्थं सम्पादितः । तदद्यास्यामिषेण मे कुटुम्बस्याहार-निर्वृत्तिर्भविष्यति ।
Canonical CTS URN Reference
Pañcatantram, PT 2.425. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 2.424) All Verses in Chapter 2 Next Verse (PT 2.426) →