Skip to main content
Search
Full Chapter
PT • Chapter 2: Canto 2

PT 2.7

Canonical Ref: PT 2.7
Sanskrit (Devanāgarī)
तत्र च लघुपतनको नाम वायसः प्रतिवसति स्म । स कदाचित्प्राण-यात्रार्थं पुरमुद्दिश्य प्रचलितो यावत्पश्यति, तावज्जाल-हस्तोऽतिकृष्ण-तनुः स्फुटित-चरण ऊर्ध्व-केशो यम-किङ्कराकारो नरः संमुखो बभूव । अथ तं दृष्ट्वा शङ्कित-मना व्यचिन्तयत्-यदयं दुरात्माद्य ममाश्रय-वट-पादप-सम्मुखोऽभ्येति । तन्न ज्ञायते किमद्य वट-वासिनां विहङ्गमानां सङ्क्षयो भविष्यति न वा ।
Canonical CTS URN Reference
Pañcatantram, PT 2.7. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 2.6) All Verses in Chapter 2 Next Verse (PT 2.8) →