सोऽब्रवीत्- कथा ११ मदोत्कट-सिंह-कथा
अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपि-वायस-गोमायवः सन्ति । अथ कदाचित्तैरितस्ततो भ्रमद्भिः सार्थाद्भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आह—अहो अपूर्वमिदं सत्त्वम् । तज्ज्ञायतां किमेतदारण्यकं ग्राम्यं वेति ।
तच्छ्रुत्वा वायस आह-भोः स्वामिन् ! ग्राम्योऽयमुष्ट्र-नामा जीव-विशेषस्तव भोज्यः । तद्व्यापाद्यताम् । सिंह आह-नाहं गृहमागतं हन्मि ।उक्तं च- गृहं शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् । यो हन्यात्तस्य पापं स्याच्छतब्राह्मणघातजम् ॥
तदभय-प्रदानं दत्त्वा मत्-सकाशमानीयतां येनास्यागम-कारणं पृच्छामि ।
अथासौ सर्वैरपि विश्वास्याभय-प्रदानं दत्त्वा मदोत्कट-सकाशमानीतः प्रणम्योपविष्टश्च । ततस्तस्य पृच्छतस्तेनात्म-वृत्तान्तः सार्थ-भ्रंश-समुद्भवो निवेदितः । ततः सिंहेनोक्तम्-भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहन-कष्ट-भागी भूयाः । तदत्रैवारण्ये निर्विशङ्को मरकत-सदृशानि शष्पाग्राणि भक्षयन्मया सह सदैव वस । सोऽपि तथेत्युक्त्वा तेषां मध्ये विचरन्न कुतोऽपि भयमिति सुखेनास्ते ।
तथान्येद्युर्मदोत्कटस्य महा-गजेनारण्य-चारिणा सह युद्धमभवत् । ततस्तस्य दन्त-मुसल-प्रहारैर्व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर्न वियुक्तः । अथ शरीरासामर्थ्यान्न कुत्रचित्पदमपि चलितुं शक्नोति । ते सर्वे काकादयोऽप्यप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान्सिंहः प्राह-भोः !अन्विष्यतां कुत्रचित्किंचित्सत्त्वं येनाहमेतामपि दशां प्राप्तस्तद्धत्वा युष्मद्-भोजनं सम्पादयामि ।
अथ ते चत्वारोऽपि भ्रमितुमारब्धा यावन्न किंचित्सत्त्वं पश्यन्ति तावद्वायस-शृगालौ परस्परं मन्त्रयतः । शृगाल आह—भो वायस ! किं प्रभूत-भ्रान्तेन । अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति । तदेनं हत्वा प्राण-यात्रां कुर्मः । वायस आह—युक्तमुक्तं भवता । परं स्वामिना तस्याभय-प्रदानं दत्तमास्ते न वध्योऽयमिति ।
शृगाल आह—भो वायस !अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत्तिष्ठन्तु भवन्तोऽत्रैव, यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चागच्छामि ।
एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्येदमाह-स्वामिन् ! समस्तं वनं भ्रान्त्वा वयमागताः । न किंचित्सत्त्वमासादितम् । तत्किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । तद्यदि देवादेशो भवति तत्क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते ।
अथ सिंहस्तस्य तद्दारुणं वचनमाकर्ण्य स-कोपमिदमाह-धिक्पापाधम ! यद्येवं भूयोऽपि वदसि । ततस्त्वां तत्-क्षणमेव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत्कथं व्यापादयामि । उक्तं च—
न गो-प्रदानं न मही-प्रदानं न चान्न-दानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं सर्व-प्रदानेष्वभय-प्रदानम् ॥
तच्छ्रुत्वा शृगाल आह-स्वामिन्यद्यभयप्रदानं दत्त्वा वधः क्रियते तदेष दोषो भवति । पुनर्यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन्न दोषः । ततो यदि स स्वयमेवात्मानं वधाय नियोजयति तद्वध्योऽन्यथास्माकं मध्यादेकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधादन्त्यां दशां यास्यन्ति । तत्किमेतैः प्राणैरस्माकं ये स्वाम्यर्थे न यास्यन्ति ।अपरं पश्चादप्यस्माभिर्वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किंचिदनिष्टं भविष्यति ।उक्तं च- यस्मिन्कुले यः पुरुषः प्रधानः स सर्व-यत्नैः परिरक्षणीयः । तस्मिन्विनष्टे स्व-कुलं विनष्टं न नाभि-भङ्गे ह्यरका वहन्ति ॥
तदाकर्ण्य मदोत्कट आह—यद्येवं तत्कुरुष्व यद्रोचते ।
तच्छ्रुत्वा स सत्वरं गत्वा तानाह-भोः ! स्वामिनो महत्यवस्था वर्तते । तत्किं पर्यटितेन ? तेन विना कोऽत्रास्मान्रक्षयिष्यति ? तद्गत्वा तस्य क्षुद्-रोगात्पर-लोकं प्रस्थितस्यात्म-शरीर-दानं कुर्मो येन स्वामि-प्रसादस्य अनृणतां गच्छामः । उक्तं च—
आपदं प्राप्नुयात्स्वामी यस्य भृत्यस्य पश्यतः । प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥
तद्-अनन्तरं ते सर्वे बाष्प-पूरित-दृशो मदोत्कटं प्रणम्योपविष्टाः । तान्दृष्ट्वा मदोत्कट आह—भोः ! प्राप्तं दृष्टं वा किंचित्सत्त्वम् । अथ तेषां मध्यात्काकः प्रोवाच-स्वामिन् ! वयं तावत्सर्वत्र पर्यटिताः परं न किंचित्सत्त्वमासादितं दृष्टं वा । तदद्य मां भक्षयित्वा प्राणान्धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्ग-प्राप्तिरिति । उक्तं च—
स्वाम्य्-अर्थे यस्त्यजेत्प्राणान्भृत्यो भक्ति-समन्वितः । स परं पदमाप्नोति जरा-मरण-वर्जितम् ॥
तच्छ्रुत्वा शृगाल आह—भोः ! स्वल्प-कायो भवान् । तव भक्षणात्स्वामिनस्तावत्प्राण-यात्रा न भवति । अपरो दोषश्च तावत्समुत्पद्यते । उक्तं च—
काक-मांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् । भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥
तद्दर्षिता स्वामि-भक्तिर्भवता गतं च आनृण्यं भर्तृ-पिण्डस्य प्राप्तश्चोभय-लोके साधु-वादः । तदपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राह-स्वामिन् ! मां भक्षयित्वाद्य प्राण-यात्रां विधाय ममोभय-लोक-प्राप्तिं कुरु । उक्तं च—
स्वाम्य्-आयत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । यतस्ततो न दोषोऽस्ति तेषां ग्रहण-सम्भवः ॥
अथ तच्छ्रुत्वा द्वीप्याह-भोः साधूक्तं भवता पुनर्भवानपि स्वल्प-कायः स्व-जातिश्च नखायुधत्वादभक्ष्य एव ।उक्तं च- नाभक्ष्यं भक्षयेत्प्राज्ञः प्राणैः कण्ठ-गतैरपि । विशेषात्तदपि स्तोकं लोक-द्वय-विनाशकम् ॥
तद्दर्शितं त्वयात्मनः कौलीन्यम् ।अथ वा साधु चेदमुच्यते-एतद्-अर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् ।आदि-मध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥
तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटमाह-स्वामिन् ! क्रियतामद्य मम प्राणैः प्राण-यात्रा । दीयतामक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षिति-तले प्रभूतं यशः । तन्नात्र विस्मयः कार्यः ।उक्तं च- मृतानां स्वामिनः कार्ये भृत्यानामनुवर्तिनाम् । भवेत्स्वर्गे अक्षयो वासः कीर्तिश्च धरणी-तले ॥
तच्छ्रुत्वा क्रथनकश्चिन्तयामास-एतैस्तावत्सर्वैरपि शोभा-वाक्यान्युक्तानि न चैकोऽपि स्वामिना विनाशितः । तदहमपि प्राप्त-कालं वक्ष्यामि चित्रकं येन मद्-वचनमेते त्रयोऽपि समर्थयन्ति ।इति निश्चित्य प्रोवाच-भोः सत्यमुक्तं भवता परं भवानपि नखायुधः । तत्कथं भवन्तं स्वामी भक्षयति ।उक्तं च- मनसापि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्येव इह लोके परत्र च ॥
तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनकोऽग्रे स्थित्वा प्रणम्योवाच-स्वामिन् !एतेऽभक्ष्यास्तव तन्मम प्राणैः प्राण-यात्रा विधीयतां येन ममोभय-लोक-प्राप्तिर्भवति । उक्तं च—
न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झित-प्राणाः स्वाम्य्-अर्थे सेवकोत्तमाः ॥
एवमभिहिते ताभ्यां शृगाल-चित्रकाभ्यां विदारितोभय-कुक्षिः क्रथनकः प्राणानत्याक्षीत् । ततश्च तैः क्षुद्र-पण्डितैः सर्वैर्भक्षितः ।
अतोऽहं ब्रवीमि-बहवः पण्डिताः क्षुद्राः इति ।
तद्भद्र, क्षुद्र-परिवारोऽयं ते राजा मया सम्यग्जातः । सतामसेव्यं च । उक्तं च—