एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनक-मार्गमवलोकयन्नेकाकी तस्थौ । दमनकोऽपि सञ्जीवक-सकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्ट-मना व्यचिन्तयत्-अहो शोभनमापतितम् । अनेनैतस्य सन्धि-विग्रह-द्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च—
न कौलीन्यान्न सौहार्दान्नृपो वाक्ये प्रवर्तते । मन्त्रिणां वावदभ्येति व्यसनं शोकमेव च ॥
सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् । अतएव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥
यथा नेच्छति नीरोगः कदाचित्सुचिकित्सकम् । तथापद्रहितो राजा सचिवं नाभिवाञ्छति ॥
एवं विचिन्तयन्पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि तमायान्तं प्रेक्ष्य स्वाकारं रक्षन्यथा-पूर्व-स्थितः दमनकोऽपि पिङ्गलक-सकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह - किं दृष्टं भवता तत्सत्त्वम् ?
दमनक आह— दृष्टं स्वामि-प्रसादात् ।
पिङ्गलक आह—अपि सत्यम् ।
दमनक आह— किं स्वामि-पादानामग्रेऽसत्यं विज्ञाप्यते । उक्तं च—
अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् । देवानां च विनश्यते स द्रुतं सुमहानपि ॥
तथा च—
सर्व-देव-मयो राजा मनुना सम्प्रकीर्तितः । तस्मात्तं देववत्पश्येन्न व्यलीकेन कर्हिचित् ॥
सर्व-देवमयस्यापि विशेषो नृपतेरयम् । शुभाशुभ-फलं सद्यो नृपाद्देवाद्भवान्तरे ॥
पिङ्गलक आह— सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः—
तृणानि नोन्मूलयति प्रभञ्जनो म्र्डूनि नीचैः प्रणतानि सर्वतः । स्वभाव एवोन्नत-चेतसामयं महान्महत्स्वेव करोति विक्रमम् ॥
अपि च—
गण्डस्थलेषु मद-वारिषु बद्ध-राग- मत्त-भ्रमद्-भ्रमर-पाद-तलाहतोऽपि । कोपं न गच्छति नितान्त-बलोऽपि नागस्तुल्ये बले तु बलवान्परिकोपमेति ॥
दमनक आह—अस्त्वेवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि ।
पिङ्गलक आह सोच्छ्वासम्- किं भवान्शक्नोत्येवं कर्तुम् ।
दमनक आह— किमसाध्यं बुद्धेरस्ति । उक्तं च—
न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न पदातिभिः । कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥
पिङ्गलक आह— यद्येवं तर्ह्यमात्य-पदेऽध्यारोपितस्त्वम् । अद्य-प्रभृति प्रसाद-निग्रहादिकं त्वयेव कार्यमिति निश्चयः ।
अथ दमनकः सत्वरं गत्वा साक्षेपं तमिदमाह-एह्येहीतो दुष्ट-वृषभ । स्वामी पिङ्गलकस्त्वामाकारयति । किं निःशङ्को भूत्वा मुहुर्मुहुर्नदसि वृथा इति ।
तच्छ्रुत्वा सञ्जीवकोऽब्रवीत्- भद्र कोऽयं पिङ्गलकः ।
दमनक आह— किं स्वामिनं पिङ्गलकमपि न जानासि ? तत्-क्षणम्प्रतिपालय । फलेनैव ज्ञास्यसि । नन्वयं सर्व-मृग-परिवृतो बट-तले स्वामी पिङ्गलक-नामा सिंहस्तिष्ठति ।
तच्छ्रुत्वा गतायुषमिवात्मानम्मन्यमानः सञ्जीवकः परं विषादमगमत् । आह च- भद्र भवान्साधु-समाचारो वचन-पटुश्च दृश्यते । तद्यदि मामवश्यं तत्र नयसि तद्-अभय-प्रदानेन स्वामिनः सकाशात्प्रसादः कारयितव्यः ।
दमनक आह—भोः सत्यमभिहितं भवता । नीतिरेषा यतः—
पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि । न कथञ्चिन्महीपस्य चित्तान्तः केनचित्क्वचित् ॥
तत्त्वमत्रैव तिष्ठ यावदहं तं समये दृष्ट्वा ततः पश्चात्त्वामनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक-सकाशं गत्वेदमाह-स्वामिन्न तत्प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति । मया पृष्ट इदमूचे । महेश्वरेण परितुष्टेन कालिन्दी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनमिदम् ।
पिङ्गलक आह सभयम्-सत्यं ज्ञातं मयाधुना । न देवता-प्रसादं विना शष्प-भोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस्त्वया किमभिहितम् ।
दमनक आह—स्वामिनेतदभिहितं मया यदेतद्-वनं चण्डिका-वाहन-भूतस्य पिङ्गलकस्य विषयीभूतम् । तद्भवानभ्यागतः प्रियोऽतिथिः । तत्तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिरेक-स्थानाश्रयेण कालो नेयः इति । ततस्तेनापि सर्वमेतत्प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशादभय-दक्षिणा दापयितव्या इति । तदत्र स्वामी प्रमाणम् ।