Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 32 of 36 (Verses 30 shown)
PT 1.931 अनुष्टुप्
उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥
कस्मिंश्चिद्वने शमी-वृक्ष-शाखालम्बित-वसथं कृत्वारण्य-चटक-दम्पती प्रतिवसतः स्म ।अथ कदाचित्तयोः सुख-संस्थयोर्हेमन्त-मेघो मन्दं मन्दं वर्षितुमारब्धः ।अत्रान्तरे कश्चिच्छाखा-मृगो वातासार-समाहतः प्रोद्धूषित-शरीरो दन्तवीणां वादयन्वेपमानस्तस्याः शम्या मूलमासाद्योपविष्टः ।अथ तं तादृषमवलोक्य चटका प्राह-भो भद्र ! हस्त-पाद-समोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम् ॥
एतच्छ्रुत्वा तां वानरः सकोपमाह-अधमे कस्मान्न त्वं मौन-व्रता भवसि ?अहो धार्ष्ट्यमस्याः । अद्य मामुपहसति—
PT 1.936 अनुष्टुप्
सूची-मुखि दुराचारा रण्डा पण्डित-वादिनी । नाशङ्कते प्रजल्पन्ती तत्किमेनां न हन्म्यहम् ॥
एवं प्रलप्य तामाह-मुग्धे ! किं मम चिन्तया तव प्रयोजनम् ?उक्तं च—
PT 1.938 अनुष्टुप्
वाच्यं श्रद्धा-समेतस्य पृच्छतेश्च विशेषतः । प्रोक्तं श्रद्धा-विहीनस्य अरण्य-रुदितोपमम् ॥
तत्किं बहुना तावत् । कुलाय-स्थितया तया पुनरप्यभिहितः । स तावत्तां शमीमारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि-उपदेशो न दातव्यः इति ।
तन्मूर्ख ! शिक्षापितोऽपि न शिक्षितस्त्वम् । अथवा न ते दोषोऽस्ति, यतः साधोः शिक्षा गुणाय सम्पद्यते, नासाधोः । उक्तं च—
PT 1.941 अनुष्टुप्
किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् । अन्धकार-प्रतिच्छन्ने घटे दीप इवाहितः ॥
तद्-व्यर्थ-पाण्डित्यमाश्रित्य मम वचनमशृण्वन्नात्मनः शान्तिमपि वेत्सि । तन्नूनमपजातस्त्वम् । उक्तं च—
PT 1.943 अनुष्टुप्
जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च । अपजातश्च लोकेऽस्मिन्मन्तव्याः शास्त्र-वेदिभिः ॥
PT 1.944 अनुष्टुप्
मातृ-तुल्य-गुणो जातस्त्वनुजातः पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥
PT 1.945 आर्या (१२, १८, १२, १५)
अप्यात्मनो विनाशं गणयति न खलः पर-व्यसन-हृष्टः । प्रायो मस्तक-नाशे समर-मुखे नृत्यति कबन्धः ॥
PT 1.947 अनुष्टुप्
धर्म-बुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थ-पाण्डित्यात्पिता धूमेन घातितः ॥
सोऽब्रवीत्- कथा २० कृष्ण-सर्प-कथा
कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः । अथ कदाचित्पापबुद्धिना चिन्तितं यद्-अहं तावन्मूर्खो दारिद्र्योपेतश्च । तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वा अस्याश्रयेणार्थोपार्जनां कृत्वैनमपि वञ्चयित्वा सुखीभवामि ।
अथान्यस्मिन्नहनि पापबुद्धिर्धर्मबुद्धिं प्राह-भो मित्र ! वार्धक-भावे किं त्वात्म-विचेष्टितं स्मरसि । देशान्तरमदृष्ट्वा कां शिष्ट-जनस्य वार्त्तां कथयिष्यसि ?उक्तं च—
PT 1.952 आर्या (१२, १८, १२, १५)
देशान्तरेषु बहु-विध-भाषा-वेषादि येन न ज्ञातम् । भ्रमता धरणी-पीठे तस्य फलं जन्मनो व्यर्थम् ॥
PT 1.954 आर्या (१२, १८, १२, १५)
विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् । यावद्व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ॥
अथ तस्य तद्-वचनमाकर्ण्य प्रहृष्ट-मनास्तेनैव सह गुरु-जनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धि-प्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तमासादितम् । ततश्च तौ द्वावपि प्रभूतोपार्जित-द्रव्यौ प्रहृष्टौ स्व-गृहं प्रत्यौत्सुक्येन प्रस्थितौ । उक्तं च—
PT 1.956 अनुष्टुप्
प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम् । क्रोश-मात्रोऽपि भू-भागः शत-योजनवद्भवेत् ॥
अथ स्व-स्थान-समीप-वर्तिना पापबुद्धिना धर्मबुद्धिरभिहितः-भद्र ! न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते । तदत्रैव वन-गहने क्वापि भूमौ निक्षिप्य किञ्चिन्मात्रमादाय गृहं प्रविशावः । भूयोऽपि प्रयोजने सञ्जाते तन्-मात्रं समेत्यास्मात्स्थानान्नेष्यावः । उक्तं च—
PT 1.958 अनुष्टुप्
न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥
PT 1.960 अनुष्टुप्
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →