Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 17 of 36 (Verses 30 shown)
PT 1.481 अनुष्टुप्
यस्य क्षेत्रं नदी-तीरे भार्या च पर-सङ्गता । स-सर्पे च गृहे वासः कथं स्यात्तस्य निर्वृतिः ॥
PT 1.483 अनुष्टुप्
सर्प-युक्ते गृहे वासो मृत्युरेव न संशयः । यद्ग्रामान्ते वसेत्सर्पस्तस्य स्यात्प्राण-संशयः ॥
अस्माकमपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः ।
स आह-नात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् । उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः । उपाय-ज्ञोऽल्प-कायोऽपि न शूरैः परिभूयते ॥
PT 1.487 अनुष्टुप्
भक्षयित्वा बहून्मत्स्यानुत्तमाधम-मध्यमान् । अतिलौल्याद्बकः कश्चिन्मृतः कर्कटक-ग्रहात् ॥
सोऽब्रवीत्- कथा ७ बक-कुलीरक-कथा
अस्ति कस्मिंश्चिद्वन-प्रदेशे नाना-जल-चर-सनाथं महत्सरः । तत्र च कृताश्रयो बक एको वृद्ध-भावमुपागतो मत्स्यान्व्यापादयितुमसमर्थः । ततश्च क्षुत्क्षाम-कण्ठः सरस्-तीरे उपविष्टो मुक्ता-फल-प्रकर-सदृशैरश्रु-प्रवाहैर्धरा-तलमभिषिञ्चन्रुरोद । एकः कुलीरको नाना-जल-चर-समेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचे-माम ! किमद्य त्वया नाहार-वृत्तिरनुष्ठीयते ? केवलमश्रु-पूर्ण-नेत्राभ्यां स-निःश्वासेन स्थीयते ।
स आह—वत्स ! सत्यमुपलक्षितं भवता । मया हि मत्स्यादनं प्रति परम-वैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतानपि मत्स्यान्न भक्षयामि ।
कुलीरकस्तच्छ्रुत्वा प्राह-माम, किं तद्वैराग्य-कारणम् ?
स प्राह-वत्स,अहमस्मिन्सरसि जातो वृद्धिं गतश्च । तन्मयैतच्छ्रुतं यद्द्वादश-वर्षिक्यानावृष्टिः सम्पद्यते लग्ना ।
कुलीरक आह—कस्मात्तच्छ्रुतम् ?
बक आह—दैवज्ञ-मुखादेष शनैश्चरो हि रोहिणी-शकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराह-मिहिरेण—
PT 1.496 उपगीति (१२, १५, १२, १५)
यदि भिन्ते सूर्य-सुतो रोहिण्याः शकटमिह लोके । द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ ॥
PT 1.498 उपजातिः
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा । भस्मास्थि-शकलाकीर्णा कापालिकमिव व्रतं धत्ते ॥
PT 1.500 उपजातिः
रोहिणी-शकटमर्क-नन्दनश्चेद्भिन्नत्ति रुधिरोऽथवा शशी । किं वदामि तद्-अनिष्ट-सागरे सर्व-लोकमुपयाति सङ्क्षयः ॥
PT 1.501 रथोद्धता
रोहिणी-शकट-मध्य-संस्थिते चन्द्रमस्य शरणी-कृता जनाः । क्वापि यान्ति शिशुपाचिताशनाः सूर्य-तप्त-भिदुराम्बु-पायिनः ॥
तदेतत्सरः स्वल्प-तोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन्शुष्के यैः सहाहं वृद्धिं गतः, सदैव क्रीडितश्च, ते सर्वे तोयाभावान्नाशं यास्यन्ति । तत्तेषां वियोगं द्रष्टुमहमसमर्थः । तेनैतत्प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्प-जलाशयानां जलचरा गुरु-जलाशयेषु स्व-स्वजनैर्नीयन्ते । केचिच्च मकर-गोधा-शिशुमार-जलहस्ति-प्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद्रोदिमि यद्बीज-शेस-मात्रमप्यत्र नोद्धरिष्यति ।
ततः स तदाकर्ण्यान्येषामपि जलचराणां तत्तस्य वचनं निवेदयामास । अथ ते सर्वे भय-त्रस्त-मनसो मत्स्य-कच्छप-प्रभृतयस्तमभ्युपेत्य पप्रच्छुः-माम !अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति ?
बक आह—अस्त्यस्य जलाशयस्य नातिदूरे प्रभूत-जल-सनाथं सरः पद्मिनी-खण्ड-मण्डितं यच्चतुर्विंशत्यपि वर्षाणामवृष्ट्या न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति, तदहं तं तत्र नयामि ।
अथ ते तत्र विश्वासमापन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वमहं पूर्वमिति समन्तात्परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान्पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्या-वार्ता-सन्देशकैर्मनांसि रञ्जयन्नित्यमेवाहार-वृत्तिमकरोत् ।
अन्यस्मिन्दिने च कुलीरकेणोक्तः-माम ! मया सह ते प्रथमः स्नेह-सम्भाषः सञ्जातः । तत्किं मां परित्यज्यान्यान्नयसि ? तस्मादद्य मे प्राण-त्राणं कुरु ।
तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान्-निर्विण्णोऽहं मत्स्य-मांसादनेन तदद्यैनं कुलीरकं व्यञ्जन-स्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्य-शिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थि-पर्वतं शिलाश्रयमवलोक्य मस्त्यास्थीनि परिज्ञाय तमपृच्छत्-माम, कियद्दूरे स जलाशयः ? मदीय-भारेणातिश्रान्तस्त्वम् । तत्कथय ।
सोऽपि मन्द-धीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति स-स्मितमिदमाह-कुलीरक, कुतोऽन्यो जलाशयः ? मम प्राण-यात्रेयम् । तस्मात्स्मर्यतामात्मनोऽभीष्ट-देवता । त्वामप्यन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्युक्तवति तस्मिन्स्व-वदन-दंश-द्वयेन मृणाल-नाल-धवलायां मृदु-ग्रीवायां गृहीतो मृतश्च ।
अथ स तां बक-ग्रीवां समादाय शनैः शनैस्तज्जलाशयमाससाद । ततः सर्वैरेव जलचरैः पृष्टः-भोः कुलीरक ! किं निवृत्तस्त्वम् ? स मातुलोऽपि नायातः । तत्किं चिरयति ? वयं सर्वे सोत्क्सुकाः कृत-क्षणास्तिष्ठामः ।
एवं तैरभिहिते कुलीरकोऽपि विहस्योवाच-मूर्खाः ! सर्वे जलचरास्तेन मिथ्या-वादिना वञ्चयित्वा नातिदूरे शिला-तले प्रक्षिप्य भक्षिताः । तन्ममायुः-शेषतया तस्य विश्वास-घातकस्याभिप्रायं ज्ञात्वा ग्रीवेयमानीता । तदलं सम्भ्रमेण । अधुना सर्व-जल-चराणां क्षेमं भविष्यति ।
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →