Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 27 of 36 (Verses 30 shown)
कस्मिंश्चिद्वनोद्देशे चटक-दम्पती तमाल-तरु-कृत-निलयौ प्रतिवसतः स्म । अथ तयोर्गच्छता कालेन सन्ततिरभवत् । अन्यस्मिन्नहनि प्रमत्तो वन-गजः कश्चित्तं तमाल-वृक्षं घर्मार्तश्छायार्थी समाश्रितः । ततो मदोत्कऋषात्तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुः-शेषतया च चटकौ कथमपि प्राणैर्न वियुक्तौ ।
अथ चटका साण्ड-भङ्गाभिभूता प्रलापान्कुर्वाणा न किञ्चित्सुखमाससाद । अत्रान्तरे तस्यास्तान्प्रलापान्श्रुत्वा काष्ठ-कूटो नाम पक्षी तस्याः परम-सुहृत्-तद्-दुःख-दुःखितोऽभ्येत्य तामुवाच-भगवति ! किं वृथा प्रलापेन । उक्तं च—
PT 1.783 अनुष्टुप्
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥
PT 1.785 अनुष्टुप्
अशोच्यानीह भूतानि यो मूढस्तानि शोचति । तद्-दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ॥
PT 1.787 अनुष्टुप्
श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । तस्मान्न रोदितव्यं हि क्रियाः कार्याश्च शक्तितः ॥
चटका प्राह-अस्त्वेतत् । परं दुष्ट-गजेन मदान्मम सन्तान-क्षयः कृतः । तद्यदि मम त्वं सुहृत्-सत्यस्तदस्य गजापसदस्य कोऽपि वधोपायश्चिन्त्यताम् । यस्यानुष्ठानेन मे सन्तति-नाश-दुःखमपसरति । उक्तं च—
PT 1.789 आर्या (१२, १८, १२, १५)
आपदि येनोपकृतं येन च हसितं दशासु विषमासु । उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥
काष्ठ-कूट आह—भगवति, सत्यमभिहितं भवत्या । उक्तं च—
PT 1.791 अनुष्टुप्
स सुहृद्-व्यसने यः स्यादन्य-जात्य्-उद्भवोऽपि सन् । वृद्धौ सर्वोऽपि मित्रं स्यात्सर्वेषामेव देहिनाम् ॥
PT 1.792 अनुष्टुप्
स सुहृद्-व्यसने यः स्यात्स पुत्रो यस्तु भक्तिमान् । स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥
तत्पश्य मे बुद्धि-प्रभावम् । परं ममापि सुहृद्-भूता वीणारवा नाम मक्षिकास्ति । तत्तामाहूयागच्छामि, येन स दुरात्मा दुष्ट-गजो बध्यते ।
अथासौ चटकया सह मक्षिकामासाद्य प्रोवाच-भद्रे, ममेष्टेयं चटका केनचिद्दुष्ट-गजेन पराभूताण्ड-स्फोटनेन । तत्तस्य वधोपायमनुतिष्ठतो मे साहाय्यं कर्तुमर्हसि ।
मक्षिकाप्याह-भद्र ! किमुच्यतेऽत्र विषये । उक्तं च—
PT 1.796 अनुष्टुप्
पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत्पुनर्मित्र-मित्रस्य कार्यं मित्रैर्न किं कृतम् ॥
सत्यमेतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तमप्याहूय यथोचितं कुर्मः । उक्तं च—
PT 1.798 अनुष्टुप्
हितैः साधु-समाचारैः शास्त्रज्ञैर्मति-शालिभिः । कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥
अथ ते त्रयोऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच-कियन्मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन्मदीयो मन्त्रः कर्तव्यः । मक्षिके, त्वं गत्वा मध्याह्न-समये तस्य मदोद्धतस्य गजस्य कर्णे वीणा-रव-सदृशं शब्दं कुरु । येन श्रवण-सुख-लालसो निमीलित-नयनो भवति । ततश्च काष्ठ-कूट-चञ्च्वा स्फोटित-नयनोऽन्धीभूतस्तृषार्तो मम गर्त-तटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तमासाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैर-साधनं भवति ।
अथ तथानुष्ठिते स मत्त-गजो मक्षिका-गेय-सुखान्निमीलित-नेत्रः काष्ठ-कूट-हृत-चक्षुर्मध्याह्न-समये भ्राम्यन्मण्डूक-शब्दानुसारी गच्छन्महतीं गर्तमासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमि-चटका काष्ठ-कूटेन इति ।
टिट्टिभ आह—भद्रे,एवं भवतु । सुहृद्-वर्ग-समुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बक-सारस-मयूरादीन्समाहूय प्रोवाच-भोः पराभूतोऽहं समुद्रेणाण्डकापहरेण । तच्चिन्त्यतामस्य शोषणोपायः ।
ते सम्मन्त्र्य प्रोचुः-अशक्ता वयं समुद्र-शोषणे । तत्किं वृथा प्रयासेन । उक्तं च—
PT 1.803 अनुष्टुप्
अबलः प्रोन्नतं शत्रुं यो याति मद-मोहितः । युद्धार्थं स निवर्तेत शीर्ण-दन्तो यथा गजः ॥
तदस्माकं स्वामी वैनतेयोऽस्ति । तस्मै सर्वमेतत्-परिभव-स्थानं निवेद्यताम्, येन स्वजाति-परिभव-कुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तं च—
PT 1.805 आर्या (१२, १८, १२, १५)
सुहृदि निरन्तर-रचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे । स्वामिनि शक्ति-समेते निवेद्य दुःखं सुखी भवति ॥
तद्यामो विनतेय-सकाशं यतोऽसावस्माकं स्वामी ।
तथानुष्ठिते सर्वे ते पक्षिणो विषण्ण-वदना बाष्प-पूरित-दृशो वैनतेय-सकाशमासाद्य करुण-स्वरेण फूत्कर्तुमारब्धाः-अहो !अब्रह्मण्यमब्रह्मण्यम् !अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डान्यपहृतानि तत्-प्रनष्टमधुना पक्षि-कुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तं च—
PT 1.808 अनुष्टुप्
क्व कस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । गतानुगतिको लोको न लोकः पारमार्थिकः ॥
PT 1.809 अनुष्टुप्
चाटु-तस्कर-दुर्वृत्तैस्तथा साहसिकादिभिः । पीड्यमानाः प्रजा रक्ष्याः कटूच्छद्मादिभिस्तथा ॥
PT 1.810 अनुष्टुप्
प्रजानां धर्म-षड्-भागो राज्ञो भवति रक्षितुः । अधर्मादपि षड्-भागो जायते यो न रक्षति ॥
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →