तस्मान्नरेण कुलशीलवता सदैव नार्यः श्मशान-वटिका इव वर्जनीयाः । व्यकीर्ण-केसर-कराल-मुखा मृगेन्द्रा नागाश्च भूरि-मद-राज-विराजमानाः ॥
कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् । ज्ञात्वा च तं मन्मथ-पाश-बद्धं ग्रस्तामिषं मीनमिवोद्धरन्ति ॥
समुद्र-वीचीव चल-स्वभावाः सन्ध्याभ्र-रेखेव मुहूर्त-रागाः । स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडोतालक्तकवत्त्यजन्ति ॥
अनृतं साहसं माया मूर्खत्वमतिलुब्धता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥
सम्मोहयन्तिमदयन्ति विडम्बयन्ति निर्भर्स्तयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सरलं हृदयं नराणां किं वा न वाम-नयना न समाचरन्ति ॥
अन्तर्-विष-मया ह्येता बहिश्चैव मनोरमाः । गुञ्जा-फल-समाकारा योषितः केन निर्मिताः ॥
एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्न-नासिका स्व-गृहं गत्वा चिन्तयामास-किमिदानीं कर्तव्यम् ? कथमेतन्महच्-छिद्रं स्थगयितव्यम् ?
अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्य-वशाद्राज-कुले पर्युषितः प्रत्यूषे च स्व-गृहमभ्युपेत्य द्वार-देश-स्थो विविध-पौर-कृत्योत्सुकतया तामाह-भद्रे शीघ्रमानीयतां क्षुर-भाण्डं येन क्षौर-कर्म-करणाय गच्छामि ।
सापि छिन्ननासिका गृह-मध्य-स्थितैव कार्य-करणापेक्षया क्षुर-भाण्डात्क्षुरमेकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽप्युत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन्तद्-अभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टोर्ध्व-बाहू विधाय फुतकर्तु-मना गृहान्निश्चक्राम । अहो पश्यत पापेनानेन मम सद्-आचार-वर्तिन्याः नासिका-च्छेदो विहितः । तत्-परित्रायतां परित्रायताम् ।
अत्रान्तरे राज-पुरुषाः समभ्येत्य तं नापितं लगुड-प्रहारैर्जर्जरीकृत्य दृढ-बन्धनैर्बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरण-स्थानं नीत्वा सभ्यानूचुः-शृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्री-रत्नमेतद्व्यङ्गितम् । तदस्य यद्युज्यते तत्क्रियताम् ।
इत्यभिहिते सभ्या ऊचुः-रे नापित ! किम्-अर्थं त्वया भार्या व्यङ्गिता । किमनया पर-पुरुषोऽभिलषितः । उन्त स्वित्प्राण-द्रोहः कृतः, किं वा चौर्य-कर्माचरितम् । तत्कथ्यतामस्या अपराधः ?
नापितोऽपि प्रहार-पीडित-तनुर्वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनरूचुः-अहो, सत्यमेतद्राज-पुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च—
भिन्न-स्वर-मुख-वर्णः शङ्कित-दृष्टिः समुत्पतित-तेजाः । भवति हि पापं कृत्वा स्व-कर्म-सन्त्रासितः पुरुषः ॥
तथा च—
आयाति स्खलितैः पादैर्मुख-वैवर्ण्य-संयुतः । ललाट-स्वेद-भाग्भूरि-गद्गदं भाषते वचः ॥
अधो-दृष्टिर्वदेत्कृत्वा पापं प्राप्तः सभां नरः । तस्माद्यत्नात्परिज्ञेयाश्चिह्नैरेतैर्विचक्षणैः ॥
अन्यच्च—
प्रसन्न-वदनो दृष्टः स्पष्ट-वाक्यः सरोष-दृक् । सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥
तदेष दुष्ट-चरित्र-लक्षणो दृश्यते । स्त्री-धर्सणाद्वध्य इति । तच्छूलीयामारोप्यतामिति ।
अथ वध्य-स्थाने नीयमानं तमवलोक्य देव-शर्मा तान्धर्माधिकृतान्गत्वा प्रोवाच-भो भोः,अन्यान्येनैष वराको वध्यते नापितः । साधु-समाचार एषः । तच्छ्रूयतां मे वाक्यम्-जम्बूको हुडु-युद्धेन इति ।
अथ ते सभ्या ऊचुः-भो भगवन् ! कथमेतत् ?
ततो देवशर्मा तेषां त्रयाणामपि वृत्तान्तं विस्तरेणाकथयत् । तदाकर्ण्य सुविस्मित-मनसस्ते नापितं विमोच्य मिथः प्रोचुः-अहो !
अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः । येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥
तदस्या नासिका-च्छेदः स्व-कर्मणा हि संवृत्तः । ततो राज-निग्रहस्तु कर्ण-च्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्त-नाश-समुद्भूत-शोक-रहितः पुनरपि स्वकीयं मठायतनं जगाम ।अतोऽहं ब्रवीमि-जम्बूको हुडु-युद्धेन (१।१७४)इति ।
करटक आह—एवं-विधे व्यतिकरे किं कर्तव्यमावयोः ?
दमनकोऽब्रवीत्-एवं-विधेऽपि समये मम बुद्धि-स्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर्विश्लेषयिष्यामि । उक्तं च, यतः—
एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ॥
तदहं माया-प्रपञ्चेन गुप्तमाश्रित्य तं स्फोटयिष्यामि ।
करटक आह—भद्र, यदि कथमपि तव माया-प्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव ।
सोऽब्रवीत्-तात, मैवं वद । गूढ-बुद्धिभिरापत्-काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस्त्याज्यः । कदाचिद्घुणाक्षर-न्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च—