तदाकर्ण्य प्रत्युत्पन्न-मतिः प्राह-अहो सत्यमभिहितं भवता । ममाप्यभीष्टमेतत् । तदन्यत्र गम्यतामिति । उक्तं च—
पर-देश-भयात्भीता बहु-माया नपुंसकाः । स्व-देशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥
यस्यास्ति सर्वत्र गतिः स कस्मात्स्व-देश-रागेण हि याति नाशम् । तातस्य कूपोऽयमिति ब्रुवाणाः क्षार-जलं कापुरुषाः पिबन्ति ॥
अथ तत्समाकर्ण्य प्रोच्चैर्विहस्य यद्-भविष्यः प्रोवाच-अहो, न भवद्भ्यां मन्त्रितं सम्यगेतदिति, यतः किं वाङ्-मात्रेणापि तेषां पितृ-पैतामहिकमेतत्सरस्त्यक्तुं युज्यते । यद्यायुः-क्षयोऽस्ति तदन्यत्र गतानामपि मृत्युर्भविष्यत्येव । उक्तं च—
अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे न जीवति ॥
तदहं न यास्यामि भवद्भ्यां च यत्प्रतिभाति तत्कर्तव्यम् ।
अथ तस्य तं निश्चयं ज्ञात्वानागत-विधाता प्रत्युत्पन्न-मतिश्च निष्क्रानौ सह परिजनेन । अथ प्रभाते तैर्मत्स्य-जीविभिर्जालैस्तज्जलाशयमालोड्य यद्-भविष्येण सह तत्-सरो निर्मत्स्यतां नीतम् । अतोऽहं ब्रवीमि-अनागत-विधाता चेति ।
तच्छ्रुत्वा टिट्टिभ आह—भद्रे, किं मां यद्भविष्य-सदृशं सम्भावयसि । तत्पश्य मे बुद्धि-प्रभावं यावदेनं दुष्ट-समुद्रं स्व-चञ्च्वा शोषयामि ।
टिट्टिभ्याह-अहो कस्ते समुद्रेण सह विग्रहः । तन्न युक्तमस्योपरि कोपं कर्तुम् । उक्तं च—
पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः । पिठरं ज्वलद्-अतिमात्रं निज-पार्श्वानेव दहतितराम् ॥
तथा च—
अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥
टिट्टिभ आह—प्रिये, मा मैवं वद । येषामुत्साह-शक्तिर्भवति ते स्वल्पा अपि गुरून्विक्रमन्ते । उक्तं च—
विशेषात्परिपूर्णस्य याति शत्रोरमर्षणः । आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥
तथा च- प्रमाणादधिकस्यापि गण्ड-श्याम-मद-च्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ॥
तथा च—
बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥
हस्ती स्थूलतरः स चाङ्कुश-वशः किं हस्ति-मात्रोऽङ्कुशो दीपे प्रज्वलिते प्रणश्यति तमः किं दीप-मात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्र-मात्रो गिरिस्तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥
तदनया चञ्च्वास्य सकलं तोयं शुष्क-स्थलतां नयामि ।
टिट्टिभ्याह-भोः कान्त ! यत्र जाह्नवी नव-नदी-शतानि गृहीत्वा नित्यमेव प्रविशति, तथा सिन्धुश्च । तत्कथं त्वमष्टादश-नदी-शतैः पूर्यमाणं तं विप्रुष-वाहिन्या चञ्च्वा शोषयिष्यसि ? तत्किमश्रद्धो येनोक्तेन ।
टिट्टिभ आह—प्रिये !
अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोह-सन्निभा । अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥
दुरधिगमः पर-भागो यावत्पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलद-पटलानि ॥
टिट्टिभ्याह-यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यम् । तदन्यानपि विहङ्गमानाहूय सुहृज्-जन-सहित एवं समाचर । उक्तं च—
बहूनामप्यसाराणां सम्वायो हि दुर्जयः । तृणैरावेष्ट्यते रज्जुर्यथा नागोऽपि बद्ध्यते ॥
तथा च—
चटकाकाष्ठ-कूटेन मक्षिका-दर्दुरैस्तथा । महाजन-विरोधेन कुञ्जरः प्रलयं गतः ॥
टिट्टिभ आह—कथमेतत् ?
सा प्राह—
कथा १५ कुञ्जर-चटक-दम्पती-कथा