ततोऽहं तेनादिष्टः स्वामि-सकाशमभ्यागतः । एतद्वेला व्यतिक्रम-कारणम् । तदत्र स्वामी प्रमाणम् ।
तच्छ्रुत्वा भासुरक आह—भद्र, यद्येवं तत्सत्वरं दर्शय मे तं चौर-सिंहः येनाहं मृग-कोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च—
भूमिर्मित्रं हिरण्यं च विग्रहस्य फल-त्रयम् । नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ॥
यत्र न स्यात्फलं भूरि यत्र चस्यात्पराभवः । न तत्र मतिमान्युद्धं समुत्पाद्य समाचरेत् ॥
शशाक आह—स्वामिन् ! सत्यमिदम् । स्व-भूमि-हेतोः परिभवाच्च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान्निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च—
न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत्कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥
तच्छ्रुत्वा भासुरक आह । भद्र दुर्गस्थमपि दर्शय तं चौर-सिंहं येन व्यापादयामि । उक्तं च—
जात-मात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥
तथा च-उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥
अपि च-उपेक्षितः क्षीण-बलोऽपि शत्रुः प्रमाद-दोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यतां व्याधिरिव प्रयाति ॥
तथा च-आत्मनः शक्तिमुद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून्हन्ति स एकोऽपि क्षत्रियान्भार्गवो यथा ॥
शशक आह-अस्त्येतत् । तथापि बलवान्स मया दृष्टः । तन्न युज्यते स्वामिनस्तस्य तस्य सामर्थ्यमविदित्वा गन्तुम् ।उक्तं च-अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥
भासुरक आह—भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थमपि ।
अथ शशक आह—यद्येवं तर्ह्यागच्छतु स्वामी । एवमुक्त्वाग्रे व्यवस्थितः ।
ततश्च तेनागच्छता यः कूपो दृष्टोऽभूत्तमेव कूपमासाद्य भासुरकमाह-स्वामिन्कस्ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि चौर-सिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ यथा दर्शयामीति । भासुरक आह—दर्शय मे दुर्गम् । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूप-मध्य आत्म-प्रतिबिम्बं जल-मध्य-गतं दृष्ट्वा सिंह-नादं मुमोच । ततः प्रतिशब्देन कूप-मध्याद्द्वि-गुणतरो नादः समुत्थितः ।
अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्ट-मनाः सर्व-मृगानानन्द्य तैः सह प्रशस्यमानो यथा-सुखं तत्र वने निवसति स्म । अतोऽहं ब्रवीमि-यस्य बुद्धिर्बलं तस्य इति ।
तद्यदि भवान्कथयति तत्तत्रैव गत्वा तयोः स्व-बुद्धि-प्रभावेण मैत्री-भेदं करोमि ।
करटक आह—भद्र ! यद्येवं तर्हि गच्छ । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयताम् ।
अथ दमनकः सञ्जीवक-वियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तमाह-भद्र, किं चिराद्दृष्टः ?
दमनक आह—न कञ्चिद्देव-पादानामस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राज-प्रयोजन-विनाशमवलोक्य सन्दह्यमान-हृदयो व्याकुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तं च—
प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् । अपृष्टोऽपि हितं वक्ष्येद्यस्य नेच्छेत्पराभवम् ॥
अथ तस्य साभिप्रायं वचनमाकर्ण्य पिङ्गलक आह—किं वक्तु-मना भवान् ? तत्कथ्यतां यत्कथनीयमस्ति ।
स प्राह-देव सञ्जीवको युष्मत्-पादानामुपरि द्रोह-बुद्धिरिति । विश्वास-गतस्य मम विजने इदमाह-भो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तदहमेनं हत्वा सकल-मृगाधिपत्यं त्वत्-साचिव्य-पदवी-समन्वितं करिष्यामि । पिङ्गलकोऽपि तद्-वज्र-सार-प्रहार-सदृशं दारुणं वचः समाकर्ण्य मोहमुपगतो न किञ्चिदप्युक्तवान् । दमनकोऽपि तस्य तमाकारमालोक्य चिन्तितवान्-अयं तावत्सञ्जीवक-निबद्ध-रागः । तन्नूनमनेन मन्त्रिणा राजा विनाशमवाप्स्यति इति । उक्तं च—
एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥
तत्किमत्र युक्तमिति । पिङ्गलकोऽपि चेतनां समासाद्य कथमपि तमाह-सञ्जीवकस्तावत्प्राण-समो भृत्यः । स कथं ममोपरि द्रोह-बुद्धिं करोति ।
दमनक आह—देव, भृत्योऽभृत्य इत्यनेकान्तिकमेतत् । उक्तं च—
न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥
पिङ्गलक आह—भद्र, तथापि मम तस्योपरि चित्त-वृत्तिर्न विकृतिं याति । अथवा साध्विदमुच्यते—
अनेक-दोष-दुष्टस्य कायः कस्य न वल्लभः । कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥
दमनक आह—अत एवायं दोषः । उक्तं च—