Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 35 of 36 (Verses 30 shown)
तन्मूर्ख त्वया हितमप्यहितं कृतम् । उक्तं च—
PT 1.1022 अनुष्टुप्
पण्डितोऽपि वरं शत्रुर्न मूर्खो हित-कारकः । वानरेण हतो राजा विप्राश्चीरेण रक्षिताः ॥
कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्ति-परोऽङ्ग-सेवकोऽन्तः-पुरे अप्यप्रतिषिद्ध-प्रसरोऽतिविश्वास-स्थानमभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तत्र एवोपविशति । ततस्तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्माच्चिरायुरिच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः ।
अपरमेकस्मिन्नगरे कोऽपि विप्रो महा-विद्वान्परं पूर्व-जन्म-योगेन चौरो वर्तते । तस्मिन्पुरेऽन्य-देशादागतांश्चतुरो विप्रान्बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान्-अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथवा साध्विदमुच्यते—
PT 1.1027 आर्या (१२, १८, १२, १५)
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥
अथ तस्मिन्सेवां कुर्वति तैर्विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि । ततस्तानि जङ्घा-मध्ये तत्-समक्षं प्रक्षिप्य स्व-देशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्त-विप्रस्तान्विप्रान्गन्तुमुद्यतान्प्रेक्ष्य चिन्ता-व्याकुलित-मनाः संजातः-अहो धनमेतन्न किंचिन्मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान्निहत्य सर्व-रत्नानि गृह्णामि । इति विचिन्त्य तेषामग्रे स-करुणं विलप्येदमाह-भो मित्राणि ! यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेह-पाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहाय-भूतं मामपि सहैव नयत ।
तद्-वचः श्रुत्वा ते करुणार्द्र-चित्तास्तेन सममेव स्व-देशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्ली-पुर-मध्ये व्रजतां ध्वाङ्क्षाः कथयितुमारब्धाः-रे रे किराताः ! धावत धावत । स-पाद-लक्ष-धनिनो यान्ति । एतान्निहत्य धनं नयत ।
ततः किरातैर्ध्वाङ्क्ष-वचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुड-प्रहारैर्जर्जरी-कृत्य वस्त्राणि मोचयित्वा विलोकिताः, परं धनं किंचिन्न लब्धम् । तदा तैः किरातैरभिहितम्-भोः पान्थाः ! पुरा कदापि ध्वाङ्क्ष-वचनमनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तदर्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः ।
तदा तेषामीदृशं वचनमाकर्ण्य चौर-विप्रेण मनसि चिन्तितम्-यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति, तदापि मां वधिष्यन्ति ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्यैतान्मुञ्चामि । उक्तं च—
PT 1.1032 अनुष्टुप्
मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाब्द-शतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥
PT 1.1034 अनुष्टुप्
गवार्थे ब्राह्मणार्थे च प्राण-त्यागं करोति यः । सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥
इति निश्चित्याभिहितं-भोः किराताः ! यद्येवं ततो मां पूर्वं निहत्य विलोकयत । ततस्तैस्तथानुष्ठिते तं धन-रहितमवलोक्यापरे चत्वारोऽपि मुक्ताः ।
अतोऽहं ब्रवीमि-पण्डितोऽपि वरं शत्रुः इति । अथैवं संवदतोः सञ्जीवकः क्षणमेकं पीङ्गलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितो गतासुर्वसुन्धरा-पीठे निपपात । अथ तं गतासुमवलोक्य पिङ्गलकस्तद्-गुण-स्मरणार्द्र-हृदयः प्रोवाच-भोः,अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता । यतो विश्वास-घातादन्यन्नास्ति पापतरं कर्म । उक्तं च—
PT 1.1037 अनुष्टुप्
मित्र-द्रोही कृतघ्नश्च यश्च विश्वास-घातकः । ते नरा नरकं यान्ति यावच्चन्द्र-दिवाकरौ ॥
PT 1.1038 इन्द्रवज्रा
भूमि-क्षये राज-विनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तमुक्तं ह्यनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ॥
तथा मया सभा-मध्ये स सदैव प्रशंसितः । तत्किं कथयिष्यामि तेषामग्रतः । उक्तं च—
PT 1.1040 अनुष्टुप्
उक्तो भवति यः पूर्वं गुणवानिति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञा-भङ्ग-भीरुणा ॥
एवं-विधं प्रलपन्तं दमनकः समेत्य सहर्षमिदमाह-देव, कातरतमस्तवैष न्यायो यद्द्रोह-कारिणं शष्प-भुजं हत्वेत्थं शोचसि । तन्नैतदुपपन्नं भूभुजाम् । उक्तं च—
PT 1.1042 अनुष्टुप्
पिता वा यदि वा भ्राता पुत्रो भार्याथवा सुहृत् । प्राण-द्रोहं यदा गच्छेद्धन्तव्यो नास्ति पातकम् ॥
PT 1.1044 उपजातिः
राजा घृणी ब्राह्मणः सर्व-भक्षी स्त्री चात्रपा दुष्टमतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रसादी त्याज्या अमी यश्च कृतं न वेत्ति ॥
PT 1.1046 वसन्ततिलका
सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुरपि चार्थ-परा वदान्या । भूरि-व्यथा प्रचुर-वित्त-समागमा च वेश्याङ्गनेव नृप-नीतिरनेक-रूपा ॥
PT 1.1048 अनुष्टुप्
अकृतोपद्रवः कश्चिन्महानपि न पूज्यते । पूजयन्ति नरा नागान्न तार्क्ष्यं नाग-घातिनम् ॥
PT 1.1050 अनुष्टुप्
अशोच्यानन्वशोचस्त्वं प्रज्ञा-वादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →