अथ कदाचित्पिङ्गलको नाम सिंहः सर्व-मृग-परिवृतः पिपासाकुल उदक-पानार्थं यमुना-तटमवतीर्णः संजीवकस्य गम्भीरतर-रावं दूरादेवाशृणोत् । तच्छ्रुत्वाऽतीव व्याकुल-हृदयः ससाध्वसमाकारं प्रच्छाद्य बट-तले चतुर्-मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्विदं- सिंहः सिंहानुयायिनः काकरवाः किवृत्ता इति ।
अथ तस्य करटक-दमनक-नामानौ द्वौ शृगालौ मन्त्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत्- भद्र करटक,अयं तावदस्मत्-स्वामी पिङ्गलक उदक-ग्रहणार्थं यमुना-कच्छमवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूह-रचनां विधाय दौर्मनस्येनाभिभूतोऽत्र बट-तले स्थितः ।
करटक आह— भद्र किमावयोरनेन व्यापारेण उक्तं च यतः—
अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति । स एव निधनं याति कीलोत्पाटीव वानरः ॥
कथा १ कीलोत्पाटि-वानर-कथा
कस्मिंश्चिन्नगराभ्याशे केनापि वणिक्-पुत्रेण तरु-खण्ड-मध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्न-बेलायामाहारार्थं नगर-मध्ये गच्छन्ति । अथ कदाचित्तत्रानुषङ्गिकं वानर-यूथमितश्चेतश्च परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्ध-स्फाटितोऽञ्जन-वृक्ष-दारुमयः स्तम्भः खदिर-कीलकेन मध्य-निहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरु-शिखर-प्रसाद-शृङ्ग-दारु-पर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्न-मृत्युश्चापल्यात्तस्मिन्नर्ध-स्फोटित-स्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावदुत्पादयितुमारेभे तावत्तस्य स्तम्भ-मध्य-गत-वृषणस्य स्व-स्थानाच्चलित-कीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् । अतोऽहं ब्रवीमि-अव्यापारेषु इति । आवयोर्भक्षित-शेष आहारोऽस्त्येव । तत्किमनेन व्यापारेण । दमनक आह तत्किं भवानाहारार्थी केवलमेव । तन्न युक्तम् । उक्तं च—
सुहृदामुपकारणाद्द्विषतामप्यपकारणात् । नृप-संश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥
किं च—
यस्मिञ्जीवन्ति जीवन्ति बहवः सोऽत्र जीवतु । वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदर-पूरणम् ॥
तथा च—
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञान-शौर्य-विभवार्य-गुणैः समेतम् । तन्नाम जीवितमिह प्रवदन्ति तज्-ज्ञाः काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥
यो नात्मना न च परेण च बन्धु-वर्गे दीने दयां न कुरुते न च मर्त्य-वर्गे । किं तस्य जीवित-फलं हि मनुष्य-लोके काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥
सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥
किं च—
किं तेन जातु जातेन माटुर्यौवन-हारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥
परिवर्तिनि संसारे मृतः को वा न जायते । जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥
किं च—
जातस्य नदी-तीरे तस्यापि तृणस्य जन्म-साफल्यम् । यत्सलिल-मज्जनाकुल-जन-हस्तालम्बनं भवति ॥
तथा च—
स्तिमितोन्नत-सञ्चारा जन-सन्ताप-हारिणः । जायन्ते विरला लोके जलदा इव सज्जनाः ॥
निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः । यत्कमपि वहति गर्भं महतामपि यो गुरुर्भवति ॥
अप्रकटीकृत-शक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते । निवसन्नन्तर्-दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥
करटक आह—आवां तावदप्रधानौ तत्किमावयोरनेन व्यापरेण ।
उक्तं च—
अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः । न केवलमसंमानं लभते च विडम्बनम् ॥
तथा च—
वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायी भवति चात्यन्तं रागः शुक्ल-पटे यथा ॥
दमक आह- मा मैवं वद । अप्रधानः प्रधानः स्यात्सेवते यदि पार्थिवम् । प्रधानोऽप्यप्रधानः स्याद्यदि सेवा-विवर्जितः ॥
यत उक्तं च—
आसन्नमेव नृपतिर्भजते मनुष्यं विद्या-विहीनमकुलीनमसंस्कृतं वा । प्रायेण भूमि-पतयः प्रमदा लताश्च यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥