Skip to main content
Search
Ch. 1 PT 1.36
Full Chapter
PT • Chapter 1: Canto 1

PT 1.36

Canonical Ref: PT 1.36
Sanskrit (Devanāgarī)
कस्मिंश्चिन्नगराभ्याशे केनापि वणिक्-पुत्रेण तरु-खण्ड-मध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्न-बेलायामाहारार्थं नगर-मध्ये गच्छन्ति । अथ कदाचित्तत्रानुषङ्गिकं वानर-यूथमितश्चेतश्च परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्ध-स्फाटितोऽञ्जन-वृक्ष-दारुमयः स्तम्भः खदिर-कीलकेन मध्य-निहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरु-शिखर-प्रसाद-शृङ्ग-दारु-पर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्न-मृत्युश्चापल्यात्तस्मिन्नर्ध-स्फोटित-स्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावदुत्पादयितुमारेभे तावत्तस्य स्तम्भ-मध्य-गत-वृषणस्य स्व-स्थानाच्चलित-कीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् । अतोऽहं ब्रवीमि-अव्यापारेषु इति । आवयोर्भक्षित-शेष आहारोऽस्त्येव । तत्किमनेन व्यापारेण । दमनक आह तत्किं भवानाहारार्थी केवलमेव । तन्न युक्तम् । उक्तं च—
Canonical CTS URN Reference
Pañcatantram, PT 1.36. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.35) All Verses in Chapter 1 Next Verse (PT 1.37) →