Skip to main content
Search
Ch. 1 PT 1.32
Full Chapter
PT • Chapter 1: Canto 1

PT 1.32

Canonical Ref: PT 1.32
Sanskrit (Devanāgarī)
अथ तस्य करटक-दमनक-नामानौ द्वौ शृगालौ मन्त्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत्- भद्र करटक,अयं तावदस्मत्-स्वामी पिङ्गलक उदक-ग्रहणार्थं यमुना-कच्छमवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूह-रचनां विधाय दौर्मनस्येनाभिभूतोऽत्र बट-तले स्थितः ।
Canonical CTS URN Reference
Pañcatantram, PT 1.32. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.31) All Verses in Chapter 1 Next Verse (PT 1.33) →