Skip to main content
Search
Ch. 1 PT 1.238
Full Chapter
PT • Chapter 1: Canto 1

PT 1.238

Canonical Ref: PT 1.238
Sanskrit (Devanāgarī)
तत्त्वमत्रैव तिष्ठ यावदहं तं समये दृष्ट्वा ततः पश्चात्त्वामनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक-सकाशं गत्वेदमाह-स्वामिन्न तत्प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहन-भूतो वृषभ इति । मया पृष्ट इदमूचे । महेश्वरेण परितुष्टेन कालिन्दी-परिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनमिदम् ।
Canonical CTS URN Reference
Pañcatantram, PT 1.238. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.237) All Verses in Chapter 1 Next Verse (PT 1.239) →