Skip to main content
Search
Ch. 1 PT 1.240
Full Chapter
PT • Chapter 1: Canto 1

PT 1.240

Canonical Ref: PT 1.240
Sanskrit (Devanāgarī)
दमनक आह—स्वामिनेतदभिहितं मया यदेतद्-वनं चण्डिका-वाहन-भूतस्य पिङ्गलकस्य विषयीभूतम् । तद्भवानभ्यागतः प्रियोऽतिथिः । तत्तस्य सकाशं गत्वा भ्रातृ-स्नेहेनैकत्र भक्षण-पान-विहरण-क्रियाभिरेक-स्थानाश्रयेण कालो नेयः इति । ततस्तेनापि सर्वमेतत्प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशादभय-दक्षिणा दापयितव्या इति । तदत्र स्वामी प्रमाणम् ।
Canonical CTS URN Reference
Pañcatantram, PT 1.240. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.239) All Verses in Chapter 1 Next Verse (PT 1.241) →