Skip to main content
Search
Ch. 1 PT 1.669
Full Chapter
PT • Chapter 1: Canto 1

PT 1.669

Canonical Ref: PT 1.669
Sanskrit (Devanāgarī)
एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्येदमाह-स्वामिन् ! समस्तं वनं भ्रान्त्वा वयमागताः । न किंचित्सत्त्वमासादितम् । तत्किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । तद्यदि देवादेशो भवति तत्क्रथनक-पिशितेनाद्य पथ्य-क्रिया क्रियते ।
Canonical CTS URN Reference
Pañcatantram, PT 1.669. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.668) All Verses in Chapter 1 Next Verse (PT 1.670) →