Skip to main content
Search
Ch. 1 PT 1.454
Full Chapter
PT • Chapter 1: Canto 1

PT 1.454

Canonical Ref: PT 1.454
Sanskrit (Devanāgarī)
देव्यपि तदाकर्ण्य व्याकुली-भूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नख-विलिखित-शरीरावयवां दुहितरमपश्यत् । आह च-आः पापे ! कुल-कलङ्क-कारिणि ! किमेव शील-खण्डनं कृतम् । कोऽयं कृतान्तावलोकितस्त्वत्-सकाशमभ्येति । तत्कथ्यतां ममाग्रे सत्यम् ।
Canonical CTS URN Reference
Pañcatantram, PT 1.454. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.453) All Verses in Chapter 1 Next Verse (PT 1.455) →