Skip to main content
Search
Ch. 1 PT 1.480
Full Chapter
PT • Chapter 1: Canto 1

PT 1.480

Canonical Ref: PT 1.480
Sanskrit (Devanāgarī)
अस्ति कस्मिंश्चित्प्रदेशे महान्न्यग्रोध-पादपः । तत्र वायस-दम्पती प्रतिवसतः स्म । अथ तयोः प्रसव-काले वृक्ष-विवरान्निष्क्रम्य कृष्ण-सर्पः सदैव तद्-अपत्यानि भक्षयति । ततस्तौ निर्वेदादन्य-वृक्ष-मूल-निवासिनं प्रिय-सुहृदं शृगालं गत्वोचतुः-भद्र ! किमेवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद्दुष्टात्मा कृष्ण-सर्पो वृक्ष-विवरान्निर्गत्यावयोर्बालकान्भक्षयति । तत्कथ्यतां तद्-रक्षार्थं कश्चिदुपायः ।
Canonical CTS URN Reference
Pañcatantram, PT 1.480. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.479) All Verses in Chapter 1 Next Verse (PT 1.481) →