Skip to main content
Search
Ch. 1 PT 1.473
Full Chapter
PT • Chapter 1: Canto 1

PT 1.473

Canonical Ref: PT 1.473
Sanskrit (Devanāgarī)
अथ गरुडे तथेति प्रतिपन्ने श्री-भगवन्-नारायणस्तच्-छरीरे सङ्क्रमणमकरोत् । ततो भगवन्-माहात्म्येन गगन-स्थः स कौलिकः शङ्ख-चक्र-गदा-चाप-चिह्नितः क्षणादेव लीलयैव समस्तानपि प्रधान-क्षत्रियान्निस्तेजसश्चकारर् । ततस्तेन राज्ञा स्व-सैन्य-परिवृतेन सङ्ग्रामे जिता निहताश्च ते सर्वेऽपि शत्रवः । जातश्च लोक-मध्ये प्रवादो, यथा-अनेन विष्णु-जामातृ-प्रभावेण सर्वे शत्रवो निहता इति ।
Canonical CTS URN Reference
Pañcatantram, PT 1.473. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.472) All Verses in Chapter 1 Next Verse (PT 1.474) →