अस्सुजलोह वि सोहइ खामकवोले मुहे।
मुद्धहे काइ ण मंडण दइआगमणसुहे॥ ३७४॥
(पुलकोद्भेदः प्रसाधयति ईषन्म्लानौ स्तनौ।
प्रहर्ष: बाहू विभूषयति निष्कज्जले नयने॥
अश्रुजलौधः अपि शोभते क्षामकपोले मुखे।
मुग्धायाः किं न मण्डनं दयितागमनसुखे॥)
११. मध्यमानिमित्तो यथा—
पिए सहसत्ति पहत्तितहे विहवि/ डिअ वलअ।
पुलउत्तंभिअगत्तहे सोहहिं महिहिं गअ॥ ३७५॥
तक्खणमुक्कहो सोअहो णं बंधणकडअ।
णाइ पणट्ठहो विरहहो तरलतुरंगअए॥ ३७६॥
(प्रिये सहसा प्राप्ते विघटितानि वलयानि।
पुलकोत्तम्भितगाञ्याः शोभन्ते मह्यां गतानि॥
तत्क्षणमुक्तस्य शोकस्य ननु बन्धनकटकानि।
ननु प्रणष्टस्य विरहस्य तरलतुरङ्गपदानि॥)
१२. कनिष्ठानिमित्तो—
बाहजलोल्लिअलोअण थणय ण उप्पुसिअ।
णवि दहिकअक्खअ लइअ ण वंदणमाल किअ॥ ३७७॥
हरिसारंभ—विअंमिअपुलउक्कंप—भर।
पेक्खेवि कंतु पहुत्तउ लग्गी कंठे पर॥ ३७८॥
(बाष्पजवालार्द्रितलोचने स्तनौ न परिमार्जितौ।
नापि दधि—अक्षताः गृहीताः न वन्दनमाला कृता॥
हर्षारम्भ—विजृम्भित—पुलकोत्कम्पभरा।
प्रेक्ष्य कान्तं प्राप्तं लग्ना कण्ठे पुनः॥)
उक्ता समाप्तिस्कन्धेऽसावुदाहरणपद्धतिः।
दिशानयोऽनुसर्तव्यमनुक्तमपि सूरिभिः॥ ३७९॥
सैव प्रवासशङ्कादिचतुर्विंशतिकन्दलः।
स्मृतोऽनङ्गविहङ्गस्य प्रवासो वसतिद्रुमः॥ ३८०॥
समासव्यासाभ्यां कुसुमधनुषो जीवितमिति प्रवासो निर्णीतः प्रियजनमनोहेमनिकषः।
अथ प्रेमोद्यानप्रणयतरुविस्त्रम्भसुमनो— निवासैकास्थानी सुरभिरभिधीयेत करुणः॥ ३८१॥