Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 31

Prakāśa 31: प्रवासवर्णनप्रकाशः

प्रकाशः 31 • प्रवासवर्णनप्रकाशः

Prakāśa 31 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1475 Verses • Citations: SP 31.1–1475 • 4 Lexicon Terms • Page 30 of 50 (Verses 30 shown)
अक्खडइ पिआ हिअए अण्णं महिलाअणं रमंतस्स।
दिट्ठे सरिसम्मि गुणे सरिसम्मि अई/दीसंते॥ २१८॥
(आस्खलति प्रिया हृदये अन्यं महिलाजनं ममाणस्य।
दृष्टे सदृशे गुणे सदृशे अदृश्‍यमाने॥)
७. निर्वर्त्य—विकार्य—प्राप्य—कर्मव्यापी क्रियाविशेषः कार्यः यथा—
मा गाः पान्थ! पथामुना यदि तव भ्रातः! प्रियं जीवितं यच्चूताकृतिरत्र तिष्ठति महान् रौद्रः पुरो राक्षसः।
तेनोद्यन्मकरन्द—लुब्ध—मधुप—व्याहार—&झङ्करिणा पान्थानामधुनैव निर्घृणाधिया सार्थो हतः श्रूयते॥ २१९॥
उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद् भवद‍्भिरवेक्ष्यताम्।
इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिन—न्यासोदञ्चन्नवाऽङ्कुरक़ञ्चुकः॥ २२०॥
१. नाम्यकं जो, न्नमिक राघवः २. क्रमस्य क्रमुकस्य कवलनादिति यावत्। ३. नाम्भः जो, नाभ्यः राघवः ४. कान्ता का मम = कान्तारैर्मम. जो. रा. ५. रुपरता = कपरता जो. ६. विलोलतां मदकलैः = विलोलनादकबलः रा.
८. क्रियाविशेषानुमापकमर्थान्तरं कार्यचिह्नं यथा—
सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्त्रुतिः सर्वं नैतदिहास्ति तत्कथमयं पान्थस्तपस्वी मृतः।
आ ज्ञातं मधुलम्पटैर्मधुकरैरारब्धकोलाहलै— र्ननं दुःखितकेन चूतमुकुले दृष्टिः क्वचित् पातिता॥ २२१॥
रक्ताशोक कृशोदरी क्व नु गता मुक्त्वानुरक्तं जन नो दृष्टेति मुधैव धूनयसि किं वातावधूतं शिरः।
उत्कण्ठाघटमानषट्पदघटासङ्घट्टदष्टच्छद— स्तत्पादाहतिमन्तरेण सरसः पुष्पोद‍्गमोऽयं कुतः॥ २२२॥
अथैतेषु स्मृतीच्छाद्वेषप्रयत्‍नजन्मानो वाग्बुद्धिशरीरारम्भाः। तेषु—
१. मनआरम्भः स्मृतिजन्मा यथा—(राच. १. १८)
तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि।
स्मितार्द्रमुकुलोद्‌भेदाः कदम्बवनराजयः॥ २२३॥
स एवेच्छाजन्मा यथा—(उराच. ३. २५)
करकमलवितीर्णैरम्बुनीवारशष्पै— स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत्।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्नवोद्धेदयोग्यः॥ २२४॥
सञ्छन्नैर्जलवामनैर्जलधरैर्व्योम्नि प्रसुप्‍ते जने देवे वर्षति दिङ्गमुखेषु चरति स्वैरं कदम्बानिले।
उत्के गायति च प्रवासिनि कथं पान्थप्रियायाणामिमा नोन्मथ्नन्ति मनांसि मांसलमिलद्दीर्घान्धकाराः क्षपाः॥ २२५॥
उत्केकाः शिखिनः पयोदपटलैश्छन्नं नभोमण्डलं वाता वान्ति कदम्बरेणुशबला जाता मही शाद्‌वला।
← Previous (Ch. 30) Full Table of Contents Next (Ch. 32) →