वामबाहुशिखराग्रशायिना सा मुखेन लवलीफलत्विषा।
दिङ्मुखप्रहितलोललोचना मृत्युमुत्सवमिव प्रतीक्षते॥ १८०॥
११. ललितायामुपनीयमानं यथा—
रुद्धं रुद्धं वहति सलिलं नेत्रयोरुष्णमुष्णं न्यस्तं न्यस्तं सपदि हृदये चन्दनं शोषमेति।
यातं यातं दयितविरहे जीवितं धारयन्त्या दुःखं दुःखं व्रजति रजनी कल्पतुल्या वराक्याः॥ १८१॥
१२. शान्तायामनुमीयमानं यथा—
ओहीचदेण उविहुरा पुंणमहुआ पओसि अंपंथं।
ठिअपहिअ पिगहवइ आसाणडिआपुलोएइ॥ १८२॥
(२. वियुक्तावस्था —१२)
मनोदृग्वक्त्रावाग्वपुश्चेष्टासु विरहिणः स्वरूपावस्थानं वियुक्तावस्था।
तन्मनसि चिन्तामयमनुस्मरणात्मकं च।
दृशि प्रजागरीयं, विषयव्यावृत्त्यात्मकं, च।
वक्त्रे निर्लज्जतामयमुन्मादात्मकं च।
वाचि गुणकीर्तनमयं विलापात्मकं च।
वपुषि कार्श्यमयं, व्याध्यात्मकं च।
चेष्टायां जाड्यमयं, मूर्च्छात्मकं च।
तच्च स्थानात् स्थानान्तरेऽवतिष्ठमानम् अवस्थेत्याचक्षते। तत्र—
मनसि
१. चिन्ता यथा—
सा सुन्दरीति तरुणीति तनूदरीति मुग्धेति मुग्धवचनेति मुहुर्मुहुर्मे।
कान्तामयं विरहिणीमभिगन्तुकामः कान्तामयं जपति मन्त्रमिवान्तरात्मा॥ १८३॥
यथा वा—
कृतस्सङ्कल्पोऽपि व्यथयति परिच्छेदविषयः परिच्छिन्धीत्युक्तं वचनमपि पीडां जनयति।
मनस्स्मृत्वा स्मृत्वा ग्लपितामिदमत्रैव रमते प्रबन्धान्तश्चिन्ता सुखयति च मां दुःखयति च॥ १८४॥
२. तत्रैव अनुस्मरणं यथा—
अद्यापि तत्कनकचम्पकदामगौरं गोरोचनातिलकबिन्दुकृतैकबिन्दु।
ईषत्कटाक्षहसितोल्बणगण्डदेशं तन्व्या मुखं पथि मया सह गच्छतीव॥ १८५॥
यथा वा—
निरस्तालङ्कारां नयनजलसिक्ताधरपुटां रवावस्तं याते द्विगुणतरखेदालसमुखीम्।
अहो दूरस्थां तां करकमलविन्यस्तवदनां प्रियां पश्यामीति स्मृतिशरणकुड्ये हि लिखिता॥ १८६॥