रायविरुद्धं व कहं पहिओ पहिअस्स साहइ ससंकं।
जत्तो अंबाण वणं तत्तो दरणिग्गअं किपिं॥ १५४॥
(राजविरुद्धमिव कथां पथिकः पथिकस्य शंसति सशङ्कम्।
यत आम्राणां वनं ततः ईषन्निर्गतं किमपि॥)
पात्रम् — उत्तमं, मध्यमं, कनिष्ठं च। तत्र —
१०. उत्तमं यथा—
कोटि—परिट्ठविआ—णण—भर—णिमिअं रघुवइस्स सीआविरहे।
चाववलिअं च णवरं सज्जिअजीअं व वाहधाराहि कअं॥ १५५॥
(कोटिपरिस्थापिताननभरनमितं रघुपतेः सीताविरहे।
चापवलितं च केवलं सज्जित—जीवमिव बाष्पधाराभिः कृतम्॥
११. मध्यमं यथा—(गास. ४.९९)
मज्झण्हपत्थिअस्स वि गिम्हे पहिअस्स हरइ संदावं।
हिअअ—ट्ठिअ—जाआ—मुह—मिअंक—जोण्हा—जलप्पवाहो॥ १५६॥
(मध्याह्नप्रस्थितस्यापि ग्रीष्मे पथिकस्य हरति सन्तापम्।
हृदयस्थितजायामुखमृगाङ्कज्योत्स्नाजलप्रवाहः ॥)
१२. कनिष्ठं यथा—(गास. ७.३९)
अग्घाइ छिवइ चुम्बइ हिअअमिं ठेवइ जणिअरोमंचो।
जाआ—कओल—सारि—च्छआए पहिओ महुअपुप्फं॥ १५७॥
(आघ्राति स्पृशति चुम्बति हृदये स्थापयति जनितरोमाञ्चः।
जायाकपोलसादृक्ष्यात् पथिको मधूकपुष्पम्॥)
औचित्यं स्नेहौचित्यं, उद्योगौचित्यम्, औत्सुक्यौचित्यं च। तेषु —
१३. स्नेहौचित्यं यथा—(गास. ६.६६)
गज्ज महं चिअ उवरि सव्वत्थामेण लोह-हिअअस्स।
जलहर! लंबालइअं मा रे मारेहिसि वराइं॥ १५८॥
(गर्ज ममैवोपरि सर्वस्थाम्ना लोहहृदयस्य।
जलधर! लम्बालकिकां मा रे मारयिष्यसि वराकीम्॥)
१४. उद्यमौचित्यं यथा—(मेघ. १०६)
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः।
आलिङ्ग्यन्ते गुणवति! मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति॥ १५९॥
१५. औत्सुक्यौचित्यं यथा—(सेब. १२.२२)