तदिहानपराधिनि प्रिये सखि! कोऽयं करुणोज्झितः क्रमः॥ ३००॥
११. सहायस्य सखीं प्रति यथा—(उराच. २.७)
वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति॥ ३०१॥
१२. सहायं प्रति यथा—
ते पुच्छिज्जहि पत्तडं जे तहिं दिसिहि ण एंति।
जेहि स दिट्ठा गोरडी ते दुक्खरं जीअंति॥ ३०२॥
(ते पृच्छ्येयुः वार्ता ये तस्याः दिशः न आयान्ति।
यैः सा दृष्टा गौरी ते दुष्करं जीवन्ति॥)
(७. उत्कण्ठाविनोदः —६)
जातौत्सुक्यस्य चेतसः क्रियान्तरेषु व्यासङ्ग उत्कण्ठाविनोदः। स आन्तरो, बाह्यो, बाह्याभ्यन्तरः, प्रसक्तोऽनुप्रसक्तः, प्रसक्तानुप्रसक्तेश्चेति नायकस्य षोढा। नायिकाया अपि बाह्यः, आन्तरः बाह्यान्तरः, प्रसक्तोऽनुप्रसक्तः, प्रसक्तानुप्रसक्तश्चेति क्रमेण षोढैवोदह्रियन्ते। तत्र—
१. नायकस्यान्तरो यथा—(शाकु. ६.१४)
यद् यत् साधु न चित्रेऽस्याः क्रियते तत् तदन्यथा।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम्॥ ३०३॥
२. तस्यैव बाह्यो बाह्याभ्यन्तरश्च यथा—(शाकु. ६.१८)
कृतं न कर्णार्पितबन्धनं सखे ! शिरीषमाभुग्नविलम्बिकेसरम्।
न वा शरच्चन्द्रमरीचिनिर्मलं मृणालसूत्रं रचितं स्तनान्तरे॥ ३०४॥
३. तस्य प्रसक्तोऽनुप्रसक्तः प्रसक्तानुप्रसक्तश्च यथा—(शाकु. ६.१७)
कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः।
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः श्रृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्॥ ३०५॥
४. नायिकाना बाह्य आन्तरो बाह्यान्तरश्च यथा—(मेघ. ८४)
आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्चरस्थां कच्चिद् भर्तुः स्मरसि रसिके ! त्वं हि तस्य प्रियेति॥ ३०६॥
५. तस्या एव प्रसक्तो यथा—(मेघ. ८५)
उत्सङ्गे वा मलिनवसने सौम्य! निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा।
तन्त्रीरार्द्रा नयनसलिलैस्सारयित्वा कथञ्चिद् भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती॥ ३०७॥
६. तस्या अनुप्रसक्तः प्रसक्तानुप्रसक्तश्च यथा—(मेघ. ८६)
शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः।
सम्भोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः॥ ३०८॥
(८. सन्देशादानम् —१२)