१४. तृतीयो यथा—(मेघ. ८)
त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः।
कस्सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥ २६९॥
१५. चतुर्थो यथा—(मेघ. १०८)
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो— र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति॥ २७०॥
अथैते देशकालादिभेदैस्सम्भिन्नमूर्तयः।
परस्परं च संपृक्ताः सङ्ख्यामत्येतुमीशते॥ २७१॥
न पर्यन्तो विकल्पानां विरहोद्दीप्तिजन्मनाम्।
शब्दब्रह्म—विवर्तानां व्यक्तव्यक्तात्मनामिव॥ २७२॥
(४. विरहप्रतीकारः —११)
विरहप्रतीकारः — स्वाभाविकः, कादाचित्कश्च; याद्ृच्छिकः, नायिकाकृतः, नायककृतः, सखीकृतः, परिजनकृतश्च; हेतुविपरीतः, व्याधिविपरीतः, तदर्थकारी, काल्पनिकश्चेति। तत्र —
१. स्वाभाविको यथा—
उन्नाल-बालकमलाकर-माकरन्द-निष्यन्द-संवलनमांसल-गन्धबन्धुः।
त्वां प्रीणयिष्यति पुरः परिवर्तमानकल्लोलशीकरतुषारजडस्समीरः॥ २७३॥
२. कादाचित्को यथा—(उराच. ३.२)
वीचीवातैः शीकरक्षोदशीतैराकर्षद्भिः पद्मकिञ्जल्कगन्धान्।
मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेषितस्तर्पयेति॥ २७४॥
३. याद्ृच्छिको यथा—(गास. ७११वे.)
जं मुंच्छिआएँ ण सुओ कलंबगंधेण तं गुणे पडिअं।
इहरा गज्जिअसद्दो जीएण विणा ण वोलंतो॥ २७५॥
(यन्मूर्धितया न श्रुतः कदम्बगन्धेन तद्गुणे पतितम्।
इतरथा गर्जितशब्दो जीवितेन विना नापक्रामति न गच्छेत्॥)
४. नायिकाकृतो यथा—(गास. ८३५वे.)
सिविणअ—लद्ध—पिअअम—पुलइउग्गम—णिब्भरेहिं अंगेहिं।
परिरंभणे सुहाइं, पावउ मा णं पबोहेह॥ २७६॥
(स्वप्नलब्धप्रियतमपुलकितोद्गमनिर्भरैः अङ्गैः।
परिरंभणे सुखानि प्राप्नोतु मा एनां प्रबोधयत॥)
५. नायककृतो यथा—(मेघ. ९६)
तस्मिन् काले जलद! यदि सा लब्धनिद्रासुखा स्यात् तत्रासीनः स्तनितविमुखो याममात्रं सहस्व।