एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपः।
यः प्रेमपाशपाशे मृग इव न मृगीदृशां पतति ॥ ३३ ॥
स्वार्थादिसाकल्यनिबन्धनाः कुत्सानुकम्पातिशयप्रशंसादयो यथा— कुत्सिकुत्सितकः, अनुकम्पितकः, प्रकृष्टतरः, प्रशस्यरूप इति। अत्र हि— (वाप. ३.१४.२—३)
देवदत्तादिकुत्सायां वर्त्तते कुत्सितश्रुतिः।
कुत्सितस्था तु या कुत्सा तदर्थे 'को' विधीयते ॥ ३४ ॥
प्रकृष्ट इति शुक्लादिप्रकर्षस्याभिधायकः।
प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते ॥ ३५ ॥
एवमनुकम्पाप्रशंसयोरपि वाच्यमिति।
'अनुक—अभिक—अभीकः कमिता' (५.२.७४) इत्यत्राऽनुकामयतेऽसावित्यनुकः, अभिकामयतेऽसावित्यभिकः, अभीको वेति वृत्तिसमानार्थवाक्यकल्पनायां धातोः पूर्वमुपसर्गेण सम्बन्धः, साधनेन वा?
किंचातः?
यद्युपसर्गेण, प्रकृत्यर्थो वक्तव्यः अनुकामयते, अभिकामयत इत्यर्थे प्रत्ययस्यैवोत्पादात्। अथ साधनेन, पश्चादुपसर्गयोगो न घटते। न ह्यसत्त्ववचना अन्वादयः (पम. ३.१.१२) सत्त्वभूतार्थवचनैः सम्बन्धमुत्सहन्ते।
यथेच्छसि तथाऽस्तु।
अस्तु तावत् कमेः प्रथममुपसर्गेणैव सम्बृन्धः।
ननु चोक्त्तं प्रकृत्यर्थो वक्तव्य इति।
स नास्ति पृथक्, प्रत्ययार्थविशेषणभूतस्यैवान्वादेः प्रकृतिभावात्। यथा 'भृशादिभ्यो भुव्यच्वेः' (३.१.१२) इत्यत्र मनस्वी सुष्ठु भवति सुमनायते, दुर्मनायते, अभिमनायते इति सुदुरभीनां प्रत्ययार्थस्य भवने विशेषणत्वेऽपि प्रकृतिभावः।
ननु असुमनाः सुमना भवतीति प्रकृत्यर्थविशेषणत्वमपि सुदुरभीनां कस्मान्न भवति?
तथा सति स्वमनायत, दुरमनायत इत्यडागमः स्वादीनां पूर्वतः प्राप्नोति; यथा असङ्ग्रामयतेति। तत्र सङ्ग्रामयतेः सोपसर्गस्यैव चुरादिषु पाठ इति चेत्, इहापि च तत् समानम्; भृशादिषु हि सुमनस्, दुर्मनस्, अभिमनस् इति प्रकृतयः पठ्यन्ते।
यद्येवम् अन्वरुध्यतेतिवत् स भविष्यति। नैवम्—
नैवम्, यद्यपि 'अनो रुध कामे' इति दिवादिषु पठ्यते, तथापि यथा अरुध्यतेति दृश्यते। नैवम् अमनायतेति। तर्हिप्रत्ययार्थ विशेषणपक्षे, यथा श्येन इवाचरति श्येनायते इत्यत्र आङः प्रयोग उक्तार्थत्वान्न भवति, एवं सुमनायत इत्यादौ स्वादीनामपि न भवेत्। नैवम् तत्र हि आङर्थ एव प्रत्ययार्थविशेषणम्, इह तु तत्र स्वादीनामर्थाः। ततश्च मनायत इत्युक्ते न ज्ञायते सुष्ठु, दुष्ठु अभि वा मनस्वी भवतीति स्वादयः प्रयुज्यन्ते; यथा— 'पुच्छभाण्डचीवराण्णिङ्' (३.१.२०) इत्यत्र 'पुच्छादुदसने व्यसने पर्यसने च' इति पुच्छमुदस्यत्युत्पुच्छयते पर्यस्यति परिपुच्छयते इति, एवमनुकामयते अनुकः, अभिकामयतेऽभिकः, अभीको वेति।
अस्तु वा कमेः पूर्वं साधनेन संबन्धः।
ननु चोक्तम् पश्चादुपसर्गयोगो न घटते इति। निपाता अन्वादयो भविष्यन्ति—अनुरूपः कमिता अनुकः, अभिरूपः अभिकः, अभीको वेति। तथापि
अनुकोऽनुकमिता, अभिकोऽभिकमिता इति वक्तव्यं स्यात् यथा 'उत्क उन्मना' इति।
नैवम्, सामान्येनापि विशेषाभिधानं दृश्यते; तद्यथा— 'गम्लृ सृप्लृ गतौ' इत्यत्र हि गच्छतीति गौः, सर्पतीति सर्प इति गमनसर्पणयोर्यद्यपि महान् विशेषः, तथापि गतावित्यविशेषेण निर्दिश्यते। एतेन 'नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच' (५.२.३१) इत्याद्यपि व्याख्यातम्; अत्र हि नासिकाया अवटीटनम्, अवनमनम्, अवभ्रंश इति नतिविशेंषा नते इत्यनेन सामान्यशब्देनैवाभिधीयन्ते इति।
उपसर्गतो वा न दोषः। अनुरूपं कामयते, अभिरूपं कामयते इति क्रियाभागमात्रेणैव सम्बन्धादन्वादयः प्रत्ययार्थं विशिंषन्तः प्रकृतिभावं लप्स्यन्ते; यथा सुमनायते, विपुच्छयते इति। विषम उपन्यासः। तत्र हि मनःपुच्छादिकायाः प्रकृतेः श्रवणं विद्यते; इह तु तद्गन्धोऽपि नास्ति, यतः परः प्रत्यय उत्पद्यते।
नैवम्, इयान्, इयत्, अधुना, इत्यादावपि प्रकृतेरश्रवणात् तत्र प्रत्ययनिमित्ता प्रकृतेर्निर्वृत्तिः इति चेत्, इहापि निपातननिमित्ता भविष्यति।
कश्चैवमाह प्रकृतेः पर एव प्रत्ययो भवतीति ? अव्ययसर्वनामामकच् प्राक्टेः' (५.३.७१) 'विभाषा सुपो बहुच् पुरस्तात् तु' (५.३.६८) पूर्वस्य समासान्ताश्च सर्वे टजादयो भवन्ति। अति च, प्रकृतिः प्रत्यय इति रूपसिद्धिमात्रमेतत्। इदं त्वर्थवत्त्वम् अयं शब्दोऽस्मिन्नर्थे साधुर्भवतीति। स च
क्वचिदेवमुच्यते 'अनुकाभिकाभीककमिता' इति;
क्वचिद् वा 'नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच्' (५.२.३१) इति;
क्वचिदुत्कर्षः अनुपद्यन्वेष्टा (५.२.९०) इति;
क्वचित् 'श्रोत्रियंश्छन्दोऽधीते' (५.२.८४) 'क्षेत्रियच् परक्षेत्रे चिकित्स्य (५.२.९) इति;