Skip to main content
Search
Ch. 2 SP 2.439
Full Chapter
SP • Chapter 2: Prakāśa 2: प्रातिपदिकप्रकाशः

SP 2.439

Canonical Ref: SP 2.439
Sanskrit (Devanāgarī)
नैवम्, यद्यपि 'अनो रुध कामे' इति दिवादिषु पठ्यते, तथापि यथा अरुध्यतेति दृश्यते। नैवम् अमनायतेति। तर्हिप्रत्ययार्थ विशेषणपक्षे, यथा श्येन इवाचरति श्येनायते इत्यत्र आङः प्रयोग उक्तार्थत्वान्न भवति, एवं सुमनायत इत्यादौ स्वादीनामपि न भवेत्। नैवम् तत्र हि आङर्थ एव प्रत्ययार्थविशेषणम्, इह तु तत्र स्वादीनामर्थाः। ततश्‍च मनायत इत्युक्‍ते न ज्ञायते सुष्ठु, दुष्ठु अभि वा मनस्वी भवतीति स्वादयः प्रयुज्यन्ते; यथा— 'पुच्छभाण्डचीवराण्णिङ्' (३.१.२०) इत्यत्र 'पुच्छादुदसने व्यसने पर्यसने च' इति पुच्छमुदस्यत्युत्पुच्छयते पर्यस्यति परिपुच्छयते इति, एवमनुकामयते अनुकः, अभिकामयतेऽभिकः, अभीको वेति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 2.439. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 2.438) All Verses in Chapter 2 Next Verse (SP 2.440) →