Skip to main content
Search
Ch. 2 SP 2.443
Full Chapter
SP • Chapter 2: Prakāśa 2: प्रातिपदिकप्रकाशः

SP 2.443

Canonical Ref: SP 2.443
Sanskrit (Devanāgarī)
नैवम्, सामान्येनापि विशेषाभिधानं दृश्यते; तद्‌यथा— 'गम्लृ सृप्लृ गतौ' इत्यत्र हि गच्छतीति गौः, सर्पतीति सर्प इति गमनसर्पणयोर्यद्यपि महान् विशेषः, तथापि गतावित्यविशेषेण निर्दिश्यते। एतेन 'नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटच' (५.२.३१) इत्याद्यपि व्याख्यातम्; अत्र हि नासिकाया अवटीटनम्, अवनमनम्, अवभ्रंश इति नतिविशेंषा नते इत्यनेन सामान्यशब्देनैवाभिधीयन्ते इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 2.443. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 2.442) All Verses in Chapter 2 Next Verse (SP 2.444) →