तत्रावश्यं जनितसलिलोद्गारमन्तःप्रवेशान्नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः:
तत्राद्रौ जनितललिलोद्गारं वर्षन्तं त्वामभ्यन्तरप्रवेशान्निश्चितं त्रिदशवनिता नाकयुवत्यो यन्त्रधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति । यदि किलानिलवशाद्वेश्ममध्ये निक्षिप्तो विरलं वर्षसि तदा त्वमेव यन्त्रधारामयं गृहं संपद्यसे । ग्रीष्मे हि संतापनिवारणायाढ्या धारागृहान्कुर्वते । एवं सति धर्मे लब्धस्य तव ताभ्यः सकाशात्केलिलम्पटाभ्यो यदि त्यागो मोक्षो न स्यात्तत्कर्णकटुकैर्गर्जितैस्ता भाययेस्त्रासयेः । यथोद्विज्य त्वां मुञ्चेयुरिति भावः । उद्गारः प्रसरः ॥
Morphemic Decomposition & Padaccheda
तत्रावश्यं
तत्र [ind]
तत्रावश्यं
अवश्यम् [ind]
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
वलय [mn]
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
कुलिश [mn]
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
उद्घट्टन [n]
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
उद्गृ [9. P.]
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
तोय [n]
नेष्यन्ति
नी [2. P.]
त्वां
त्वद् [pron]
सुरयुवतयो
सुर [m]
सुरयुवतयो
युवति [f]
यन्त्रधारागृहत्वम्
यन्त्र [mn]
यन्त्रधारागृहत्वम्
धारागृह [n]
यन्त्रधारागृहत्वम्
त्व [n]
ताभ्यो
तद् [pron]
मोक्षस्
मोक्ष [m]
तव
त्वद् [pron]
यदि
यदि [ind]
सखे
सखि [m]
घर्मलब्धस्य
घर्म [m]
घर्मलब्धस्य
लभ् [1. P.]
न
न [ind]
स्यात्
अस् [2. P.]
क्रीडालोलाः
क्रीडा [f]
क्रीडालोलाः
लोल [adj]
श्रवणपरुषैर्
श्रवण [n]
श्रवणपरुषैर्
परुष [adj]
गर्जितैर्
गर्जित [n]
भाययेस्
भायय् [10. P.]
ताः
तद् [pron]