Skip to main content
Search
Ch. 1 MD 1.71
Full Chapter
MD • Chapter 1: Complete Text

MD 71

Canonical Ref: MD 71
Metrical Form: मन्दाक्रान्ता
Sanskrit (Devanāgarī)
मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैस्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
वल्लभदेवः: यत्र पुर्यां साक्षादासीनं हरमवेत्य स्मरः षट्पदज्यं षटपदमौर्वीकं धनुः प्रायेण भयान्नादत्ते । स्वव्यापारान्न कुरुत इत्यर्थः । कथं तर्हि मिथुनेष्वन्योन्यं प्रेमेत्याह । तस्य कामचापस्यारम्भो व्यापारः प्रवीणाङ्गनाविलासैरेव संपद्यते । कीदृशः । कामिलक्ष्येषु सभ्रूभङ्गानि प्रहितानि क्षिप्तानि नयनानि येषु । तथामोघैरवन्ध्यैः कार्यकारिभिः । तदेतेन युवतिप्रावीण्यमुक्तम् ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
मत्वा
Lemma: मन्
POS: 8. P.
देवं
Lemma: देव
POS: m
धनपतिसखं
Lemma: धनपति
POS: m
धनपतिसखं
Lemma: सख
POS: m
यत्र
Lemma: यत्र
POS: ind
साक्षाद्
Lemma: साक्षात्
POS: ind
वसन्तं
Lemma: वसन्त
POS: m
प्रायश्
Lemma: प्रायस्
POS: ind
चापं
Lemma: चाप
POS: mn
न
Lemma: न
POS: ind
वहति
Lemma: वह्
POS: 2. P. • Verb: वहति
भयान्
Lemma: भय
POS: n
मन्मथः
Lemma: मन्मथ
POS: m
षट्पदज्यम्
Lemma: षट्पद
POS: m
षट्पदज्यम्
Lemma: ज्या
POS: f
सभ्रूभङ्गप्रहितनयनैः
Lemma: स
POS: ind
सभ्रूभङ्गप्रहितनयनैः
Lemma: भ्रू
POS: f
सभ्रूभङ्गप्रहितनयनैः
Lemma: भङ्ग
POS: m
सभ्रूभङ्गप्रहितनयनैः
Lemma: प्रहि
POS: 5. P.
सभ्रूभङ्गप्रहितनयनैः
Lemma: नयन
POS: n
कामिलक्ष्येष्व्
Lemma: कामिन्
POS: m
कामिलक्ष्येष्व्
Lemma: लक्ष्य
POS: n
अमोघैस्
Lemma: अमोघ
POS: adj
तस्यारम्भश्
Lemma: तद्
POS: pron
तस्यारम्भश्
Lemma: आरम्भ
POS: m
चतुरवनिताविभ्रमैर्
Lemma: चतुर
POS: adj
चतुरवनिताविभ्रमैर्
Lemma: वनिता
POS: f
चतुरवनिताविभ्रमैर्
Lemma: विभ्रम
POS: m
एव
Lemma: एव
POS: ind
सिद्धः
Lemma: सिध्
POS: 4. Ā.
Canonical CTS URN Reference
Meghadūtam, MD 71. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (MD 70) All Verses in Chapter 1 Next Verse (MD 72) →