Skip to main content
Search
Ch. 1 MD 1.61
Full Chapter
MD • Chapter 1: Complete Text

MD 61

Canonical Ref: MD 61
Metrical Form: मन्दाक्रान्ता
Sanskrit (Devanāgarī)
तत्रावश्यं जनितसलिलोद्गारमन्तःप्रवेशान्नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
वल्लभदेवः: तत्राद्रौ जनितललिलोद्गारं वर्षन्तं त्वामभ्यन्तरप्रवेशान्निश्चितं त्रिदशवनिता नाकयुवत्यो यन्त्रधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति । यदि किलानिलवशाद्वेश्ममध्ये निक्षिप्तो विरलं वर्षसि तदा त्वमेव यन्त्रधारामयं गृहं संपद्यसे । ग्रीष्मे हि संतापनिवारणायाढ्या धारागृहान्कुर्वते । एवं सति धर्मे लब्धस्य तव ताभ्यः सकाशात्केलिलम्पटाभ्यो यदि त्यागो मोक्षो न स्यात्तत्कर्णकटुकैर्गर्जितैस्ता भाययेस्त्रासयेः । यथोद्विज्य त्वां मुञ्चेयुरिति भावः । उद्गारः प्रसरः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तत्रावश्यं
Lemma: तत्र
POS: ind
तत्रावश्यं
Lemma: अवश्यम्
POS: ind
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
Lemma: वलय
POS: mn
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
Lemma: कुलिश
POS: mn
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
Lemma: उद्घट्टन
POS: n
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
Lemma: उद्गृ
POS: 9. P.
वलयकुलिशोद्घट्टनोद्गीर्णतोयं
Lemma: तोय
POS: n
नेष्यन्ति
Lemma: नी
POS: 2. P. • Verb: नेष्यन्ति
त्वां
Lemma: त्वद्
POS: pron
सुरयुवतयो
Lemma: सुर
POS: m
सुरयुवतयो
Lemma: युवति
POS: f
यन्त्रधारागृहत्वम्
Lemma: यन्त्र
POS: mn
यन्त्रधारागृहत्वम्
Lemma: धारागृह
POS: n
यन्त्रधारागृहत्वम्
Lemma: त्व
POS: n
ताभ्यो
Lemma: तद्
POS: pron
मोक्षस्
Lemma: मोक्ष
POS: m
तव
Lemma: त्वद्
POS: pron
यदि
Lemma: यदि
POS: ind
सखे
Lemma: सखि
POS: m
घर्मलब्धस्य
Lemma: घर्म
POS: m
घर्मलब्धस्य
Lemma: लभ्
POS: 1. P.
न
Lemma: न
POS: ind
स्यात्
Lemma: अस्
POS: 2. P. • Verb: स्यात्
क्रीडालोलाः
Lemma: क्रीडा
POS: f
क्रीडालोलाः
Lemma: लोल
POS: adj
श्रवणपरुषैर्
Lemma: श्रवण
POS: n
श्रवणपरुषैर्
Lemma: परुष
POS: adj
गर्जितैर्
Lemma: गर्जित
POS: n
भाययेस्
Lemma: भायय्
POS: 10. P. • Verb: भाययेः
ताः
Lemma: तद्
POS: pron
Canonical CTS URN Reference
Meghadūtam, MD 61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (MD 60) All Verses in Chapter 1 Next Verse (MD 62) →