Skip to main content
Search
MD
Meghadūtam • Chapter 01

Complete Text

सर्गः 1

Complete Text of Meghadūtam.

Total: 111 Verses • Citations: MD 1.1–111 • 1 Lexicon Terms • Page 3 of 4 (Verses 30 shown)
MD 61 मन्दाक्रान्ता
तत्रावश्यं जनितसलिलोद्गारमन्तःप्रवेशान्नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्राद्रौ जनितललिलोद्गारं वर्षन्तं त्वामभ्यन्तरप्रवेशान्निश्चितं त्रिदशवनिता नाकयुवत्यो यन्त्रधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति । यदि किलानिलवशाद्वेश्ममध्ये निक्षिप्तो विरलं वर्षसि तदा त्वमेव यन्त्रधारामयं गृहं संपद्यसे । ग्रीष्मे हि संतापनिवारणायाढ्या धारागृहान्कुर्वते । एवं सति धर्मे लब्धस्य तव ताभ्यः सकाशात्केलिलम्पटाभ्यो यदि त्यागो मोक्षो न स्यात्तत्कर्णकटुकैर्गर्जितैस्ता भाययेस्त्रासयेः । यथोद्विज्य त्वां मुञ्चेयुरिति भावः । उद्गारः प्रसरः ॥
MD 62 मन्दाक्रान्ता
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन्कामात्क्षणमुखपटप्रीतिमैरावणस्य । धुन्वन्वातैः सजलपृषतैः कल्पवृक्षांशुकानि च्छायाभिन्नः स्फटिकविशदं निर्विशेः पर्वतं तम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: छायया प्रतिविम्बेन भिन्नो द्विधाभूतस्त्वं सितमणिनिर्मलं तं पर्वतं निर्विशेरुपभुञ्जीथाः । उपभोगमाह । कीदृशस्त्वम् । हेमाम्भोजानि सुवर्णपद्मानि प्रसूते जनयति यत्तदुदकं मानससंवन्ध्याददानो गृह्णन् । प्रसवोऽत्र गीर्णः । तथा कामात्स्वेच्छात एवैरावणस्य क्षणं मुखपटप्रीतिं कुर्वन् । गजा हि मुखपटेन प्रीयन्ते । सजलपृषतैस्तोयकणयुक्तैरनिलः सुरतरुवासांसि धुन्वन्दोलयन् । धुनोतेः सौवादिकस्य ह्रस्वान्तस्याभ्युपगमाद्धुन्वन्निति रूपम् ॥
MD 63 मन्दाक्रान्ता
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्र कैलासे दृष्ट्वास्मत्पुरीमलकां न न ज्ञास्यसे । अपि तु निःसंदेहं वेत्स्यस्येव यथा नूनमियं सालकेति । यतस्तस्याद्रेरुत्सङ्गेऽङ्के स्रस्त भ्रष्टं गङ्गैव दुगूलमम्बरं यस्यास्ताम् । जाह्नवी हि तत्र वहति । या चालका वः काले युष्माकं समये वर्षाख्येऽभ्रवृन्दं वहति । कीदृशम् । सलिलमुद्गिरति स्रवतीति सलिलोद्गारम् । कर्मण्यण् । का यथा कीदृशं किं वहतीत्याह । मुक्ताजालालंकृतमलकं यया कामिनी बिभर्ति । सापि प्रियस्योत्सङ्गे स्रस्तदुगूला भवति । सलिलस्य मुक्ताजालमुपमानम् । अभ्राणां लम्लाटकेशाः । उचैर्विमाना प्रांशुगृहा । कामचारिन्निति मेघस्य जडत्वं निराकृतम् ॥
MD 64 मन्दाक्रान्ता
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यत्रालकायां प्रासादा गृहास्तैस्तैरुच्यमानधर्मैर्भवन्तं तुलयितुमलमनुकर्तुं शक्ताः । तथा हि त्वां विद्युत्वन्तं सतडित्कं तेऽपि ललितवनिताः सविलासाङ्गनाः । त्वां सेन्द्रचापं ससुरायुधं तेऽपि सचित्राः सालेख्याः । त्वां स्निग्धगम्भीरघोषं मधुरधीरध्वनितं तेऽपि संगीताय गुणनिकार्थं प्रहतमुरजा वादितमृदङ्गाः । त्वामन्तस्तोयं तेऽपि मणिमयभुवः स्फाटिकावनयः । त्वां तुङ्गमुन्नतं तेऽप्यभ्रंलिहाग्रा व्योमस्पृक्शिखराः । एवं सर्वसादृश्यम् । अभ्रं खं लेढि व्याप्नोतीत्यभ्रंलिहमग्रं येषाम् । वहाभ्रे लिहः । तुलिरदन्तोऽपि ॥
MD 65 मन्दाक्रान्ता
हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं नीता रोध्रप्रसवरजसा पाण्डुतामाननश्रीः । चूडापाशे नवकुरवकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यत्र चाङ्गनानामिदमिदमृतुषट्कजातमग्राम्यमाभरणम् । किं किमित्याह । करे लीलाकमलं विलासनलिनम् । अलकं बालैः कुन्दकुसुमैरनुविद्धं संमिश्रम् । मुखलक्ष्मीरपि लोध्रपुष्पपरागेण पाण्डुतां गौरत्वं प्रापिता । चूडापाशे नवं सरसं कुरबककुसुमम् । कर्णयो रम्यं शिरीषकुसुमम् । सीमन्ते च त्वदुपगमजं प्रावृषेण्यं नीपपुष्पम् । तद्धि वर्षासु जायते । तदेतेन तथाभूतेन कनकालङ्कारनिरासेन नागरत्वमङ्गनानामुक्तम् ॥
MD 66 मन्दाक्रान्ता
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचनान्युत्तमस्त्रीसहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यस्यामलकायां नित्यं वरपुरन्ध्रिसहिता गुह्यकेश्वराः सौधतलान्यागत्य रतिफलं न तु कलहादिजनकं कल्पवृक्षजं मधु रसं सेवन्ते । कीदृशानि स्थलानि । सितमणिमयानि स्फटिकानि । अत एव ज्योतिश्छायास्तारावलिप्रतिबिम्बान्येव कुसुमरचना पुष्पप्रकरो येषु । कदा सेवन्ते । भवत इव गम्भीरो निर्ह्रादो ध्वनिर्येषां तेषु पुष्करेषु वाद्यमुखेष्वाहतेष्वास्फालितेषु सत्सु । तदेतेन दम्पतीनां सदासुखित्वमुक्तम् ॥
MD 67 मन्दाक्रान्ता
यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानामङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदैश्चोतिताश्चन्द्रपादैर्व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यत्र पुर्यां स्त्रीणां कामिनीनां सुरतजनितामङ्गग्लानिं चन्द्रकान्तमणयो व्यालुम्पन्ति प्रशमयन्ति । कीदृशीनाम् । प्रियतमभुजालिङ्गनोच्छ्वासितानां भर्तृभुजबन्धनपीडितानाम् । कीदृशाश्चन्द्रकान्ताः । तन्तुजालेष्ववलम्बन्त इति तन्तुजालावलम्बाः । तथा त्वत्संरोधापगमविशदैर्भवदावरणनिवृत्तिनिर्मलैश्चन्द्रपादैः शशिकिरणैः द्योतिताः स्राविताः । स्फुटजललवस्यन्दिनः प्रकटतोयकणमुचः । अतश्चाङ्गग्लानिहरत्वम् ॥
MD 68 मन्दाक्रान्ता
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीरालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालैर्धूमोद्गारानुकृतिनिपुणं जर्जरा निष्पतन्ति ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यत्र भवद्विधा मेघाश्चित्रेषु नवजलकणैर्नाशं विधाय जर्जरत्वाद्धूमोद्गारानुकृत्या धूमप्रसरसादृश्येन निपुणं प्रवीणं प्रासादजालैर्गवाक्षविवरैर्निष्पतन्ति निर्यान्ति । उत्प्रेक्षते । चित्रनाशेन शङ्कास्पृष्टा इव शङ्किता यथा । सशङ्कैर्हि सपराधत्वाद्व्याजेन पलाय्यते । कोदृशा जलदाः । यस्यामलकायां विमानाग्रभूमीर्नेत्रा वोढ़ा प्रेरकेण सततगतिना वायुना नीता अपवाहिताः । नयतीति नेता तेन । अतश्च वर्षणादालेख्यबाधः । जर्जराः खण्डा म्लानाः ॥
MD 69 मन्दाक्रान्ता
नीवीबन्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानां वासः कामादनिभृतकरेष्वाक्षिपत्सु प्रियेषु । अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्ह्रीमूढानां भवति विफलप्रेरणश्चूर्णमुष्टिः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यत्र यक्षाङ्गनानां चन्दनादिचूर्णमुष्टिर्दीपशान्तिधिया प्रेरितो विफलो भवति निष्फलः संपद्यते । प्रद्योतकाप्रशमात् । कदाचिदन्यत्रामी पतितो भवेदित्याह । अर्चिन्तुङ्गान्महाज्वालान्रत्नप्रदीपानभिमुखमामाद्यापि । विफलत्वं त्वनश्वरत्वाद्रत्नार्चिषः । क्षेपस्तु वह्निदीपभ्रान्त्या । कदा विफल इत्याह । कामात्सुरतेच्छया चपलपाणिषु प्रियेष्वम्बरमपहरत्सु । कीदृशं वासः । नीवीवन्धस्योच्चयसंयमनस्योच्छूननेन विकासेन शिथिलमदृढम् । ततश्चापलात्तदपहारः । अतश्च लज्जाव्याकुलत्वात्तासां चूर्णादिभिर्मणिदीपप्रशमनेच्छा ॥
MD 70 मन्दाक्रान्ता
गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः कॢप्तच्छेद्यैः कनककमलैः कर्णविभ्रंशिभिश्च । मुक्तालग्नस्तनपरिमलैश्छिन्नसूत्रैश्च हारैर्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: वा । कः । स्तनजघनभरेण गत्युत्कम्पात्केशच्युततैर्मन्दारकुसुमैः । कर्णभ्रष्टैश्च कनकललितैः क्लृप्तच्छेद्यै रचितविच्छित्तिविशेषैः । तथा मुक्तामणिषु लग्नः स्तनपरिमलः कुचामोदो येषां तच्छिन्नसूत्रैर्मुक्ताहारैश्च । तदेतेन भ्रष्टाभरणाग्रहणेन समृद्धिरुक्ता । छेदनीयं छेद्यं पत्रलतादि । क्लृप्त शब्दे कृषो रो लः ॥
MD 71 मन्दाक्रान्ता
मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैस्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यत्र पुर्यां साक्षादासीनं हरमवेत्य स्मरः षट्पदज्यं षटपदमौर्वीकं धनुः प्रायेण भयान्नादत्ते । स्वव्यापारान्न कुरुत इत्यर्थः । कथं तर्हि मिथुनेष्वन्योन्यं प्रेमेत्याह । तस्य कामचापस्यारम्भो व्यापारः प्रवीणाङ्गनाविलासैरेव संपद्यते । कीदृशः । कामिलक्ष्येषु सभ्रूभङ्गानि प्रहितानि क्षिप्तानि नयनानि येषु । तथामोघैरवन्ध्यैः कार्यकारिभिः । तदेतेन युवतिप्रावीण्यमुक्तम् ॥
MD 72 मन्दाक्रान्ता
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं तदमरधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्रैवंविधायामलकायां धनपतिगृहानुत्तरेण राजराजवेश्मान्युत्तरेण तदस्माकमगारं गृहम् । अभिज्ञानान्याह । शक्रचापरम्येण तोरणेन दूरादपि दृश्यम् । यस्य चोपान्ते निकटे बालो मन्दारवृक्षोऽस्ति । कीदृशः । मदीयया प्रियया सेकादिना पोषितः । यतः कृतकतनयः पुत्रीकृतः । बालत्वाच्च करग्राह्यैर्गुच्छैर्नम्रीभूतः । उत्तरेणेत्येनबन्तः । तद्योगे च गृहानित्येनपा द्वितीया । पञ्चम्यन्तः पाठस्त्वनार्यः ॥
MD 73 मन्दाक्रान्ता
वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: अस्मिन्नस्मद्गृहे वापी पद्मिनी विद्यते । कीदृशी । मरकतमणिशिलाभिर्बद्धो रचितः सोपानमार्गो यस्याः । तथा स्निग्धैर्वैडूर्यमणिभिरेव नालो दण्डो येषां तैर्हंसैः सौवर्ण: पद्ममुकुल: स्यूता प्रोता संबद्वा । वाप्यां हि पद्मैर्भाव्यम् । यस्याश्च तोये कृतवसतयो हंसास्त्वामपि प्रेक्ष्य वर्षासमयेऽपि निकटमपि मानसं सरो न ध्यास्यन्ति न समरिष्यन्ति। यतो व्यपगतशुचः । तत्रैवोपद्रवाभावान्निर्दुःखाः । हेमशब्दो रजतादिः ॥
MD 74 मन्दाक्रान्ता
यस्यास्तीरे निचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: यस्या वाप्यास्तीरे एवंविधः क्रीडाशैलोऽस्ति । कीदृशः । पेशलैमनोज्ञैरिन्द्रनीलैर्मणिभिर्निचितशिखरो बद्धशृङ्गः । कनकमयीनां च कदलीलतानां वेष्टनेन परिवलनेन प्रेक्षणीयो रम्यः । अतश्च मत्प्रियायाः कान्त इति निकटोन्नमितशतह्रदं भवन्तमालोक्य सादृश्यात्तमेवाद्रिं कातरेणाधीरेण मनसा स्मरामि। सादृश्यात्प्रियत्वाच्च स्मरणम् । कातरत्वं तु विरहवशात् । शेषत्वाविवक्षया तमित्यधीगर्थेति पष्ठ्यभावः ॥
MD 75 मन्दाक्रान्ता
रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरवकवृतेर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: अत्र केलिपर्वते रक्ताशोककेसरतरू पल्लवितौ स्तः । कुरबकवृक्षैर्वृतिर्वर्णिका कण्ठी यस्य तस्य माधवीलतामण्डपस्य प्रत्यासन्नौ सविधौ । ययोश्चैकोऽशोकस्तव सख्या मद्गेहिन्या वामपादाभिलाषी । चरण प्रहारानुग्रहेण तस्य विकामात् । मया सह । अहमपि सपराधस्तदीयं पादप्रहारमभिलषामीत्यर्थः । अपरो बकुलो दोहदेच्छद्मना सेकाभिलाषव्याजेनास्या मत्प्रेयस्या वदनमदिरां काङ्क्षति । तरुणीमुखासवसेकेन तस्य विकासात् । मया सह । अहमपि तदीयां वदनमदिरां काङ्क्षामीत्यर्थः । अशोकादीनां प्रशस्तत्वादुपादानम् ॥
MD 76 मन्दाक्रान्ता
तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर्मूले नद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जद्वलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तयोरशोककेसरयोर्मध्ये क्रीडाबर्हिणः सौवर्णो वामार्थं यष्टिदण्डोऽस्ति । कीदृशी । स्फटिकमयं फलकं पीठं यस्याः सा । मूलभागे च मणिभिर्नता संबद्धा । कैः । अनतिप्रौढा नातिपक्वा ये वंशा वेणवस्तद्वत्प्रकाशैर्द्योतमानैस्तत्सवर्णः । मरकतैरित्यर्थः । ते हि वंशवर्णाः । यां च यष्टिं दिनान्ते युष्माकं सुहृन्नीलकण्ठो मयूरोऽध्यास्ते श्रयते । कीदृशः । मत्कान्तया शिञ्जानकनककटकमनोहरैर्तालैर्वाद्यैर्नर्तितः । शिञ्जेरात्मनेपदित्वाच्छिञ्जदिति प्रयोगः प्रमादजः । अनित्यो वानुदात्तेदात्मनेपदविधिः ॥
MD 77 मन्दाक्रान्ता
एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षणीयं द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: हे साधो पूर्वोक्तैरेतैश्चिह्नैश्चित्तस्थापितैर्मद्वेश्म त्वया लक्षणीयं बोद्धव्यम् । किं च द्वारपार्श्वे शङ्खपद्यौ निधी लिखितवपुषौ दृष्ट्वा लक्ष्यम् । कीदृशम् । इदानीं मद्विरहेण क्षामच्छायं कृशशोभम् । यस्माद्रवेरस्तमये नलिनं नैव निजां श्रियं पुष्णाति वर्धयति ॥
MD 78 मन्दाक्रान्ता
गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः । अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: ततस्त्वं पूर्वोक्ते रम्यसानौ क्रीडाद्राववस्थितः सन्नस्मद्वेश्माभ्यन्तरपतितां विद्युदुन्मेषदृष्टिं तडिदुद्योतनमेव दृशं कर्तुमर्हसि । यथा तां पश्यसीति भावः । किं कृत्या । तत्क्षणं कलभतनुतामिभशिशुपेलवत्वं क्षिप्रगमनार्थ प्राप्य । महति हि देहे व्यथा जायते । कीदृशीं दृष्टिम् । अल्पाल्पा कृशप्राया भाः कान्तिर्यस्यास्ताम् । अत एव च खद्योताल्या ज्योतिर्मालिश्रेण्या यद्विलसितं स्फुरणं तत्सदृशीम् ॥
MD 79 मन्दाक्रान्ता
तन्वी श्यामा शिखरदशना पक्वबिम्बाधरौष्ठी मध्ये क्षामा चकितहरिणप्रेक्षणी निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्र वेश्मनि येवंविधाङ्गनानां भवेत्ता त्वं मम जीवितं द्वितीयं बहिश्चरं जानीथाः । मद्भार्यां बुध्येथाः । कीदृशी । या तन्वी कृशाङ्गी । श्यामैकवारप्रसूता । तरुणीत्यर्थः । शिखरदशना तीक्ष्णदन्ता । पक्वं यद्विम्बफलं तद्वदधरो यस्याः सा । मध्ये क्षामा कृशोदरी । चकितहरिणप्रेक्षणो त्रस्तकुरङ्गनयना । निम्ननाभिरतुन्दिला । श्रोणीभारान्नितम्बभारादलसगमना मन्थरयाता । स्तनाभोगेन च स्तोकं मनाङ्नम्रा नता । किं बहुना । युवतिविषये नारीमध्ये वेधसः आद्या सृष्टिरिव । आदौ ह्यनुद्वेगाद्रम्यं निर्माणं भवति । तां कीदृशीम् । परिमितकथां पेशलभाषिणीम् । मयि सहचरे पत्यौ दूरीभूते दूरस्थिते सति चक्रवाकीमिवैकां केवलाम् । यां च बालाममीषु गाढोत्कण्ठादुःसहेष्वहःसु व्रजत्सु शिशिरदग्धां कमलिनीमिव विरूपां संपन्नां मन्ये जाने । वाशब्द इवार्थे । तां जानीथाः इत्येतदपेक्षयात्र सर्वत्र द्वितीया ॥
MD 80 मन्दाक्रान्ता
तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठागुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तत्र वेश्मनि येवंविधाङ्गनानां भवेत्ता त्वं मम जीवितं द्वितीयं बहिश्चरं जानीथाः । मद्भार्यां बुध्येथाः । कीदृशी । या तन्वी कृशाङ्गी । श्यामैकवारप्रसूता । तरुणीत्यर्थः । शिखरदशना तीक्ष्णदन्ता । पक्वं यद्विम्बफलं तद्वदधरो यस्याः सा । मध्ये क्षामा कृशोदरी । चकितहरिणप्रेक्षणो त्रस्तकुरङ्गनयना । निम्ननाभिरतुन्दिला । श्रोणीभारान्नितम्बभारादलसगमना मन्थरयाता । स्तनाभोगेन च स्तोकं मनाङ्नम्रा नता । किं बहुना । युवतिविषये नारीमध्ये वेधसः आद्या सृष्टिरिव । आदौ ह्यनुद्वेगाद्रम्यं निर्माणं भवति । तां कीदृशीम् । परिमितकथां पेशलभाषिणीम् । मयि सहचरे पत्यौ दूरीभूते दूरस्थिते सति चक्रवाकीमिवैकां केवलाम् । यां च बालाममीषु गाढोत्कण्ठादुःसहेष्वहःसु व्रजत्सु शिशिरदग्धां कमलिनीमिव विरूपां संपन्नां मन्ये जाने । वाशब्द इवार्थे । तां जानीथाः इत्येतदपेक्षयात्र सर्वत्र द्वितीया ॥
MD 81 मन्दाक्रान्ता
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां निःश्वासानामशिशिरतया भिन्नवर्णाधरौष्ठम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वादिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तेर्बिभर्ति ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तस्या वक्तुं निश्चितं त्वदुपसरणक्लिष्टकान्तेर्भवत्संपर्ककदर्थितशोभस्य शशिनो दैन्यं बिभर्ति विच्छायतां धत्ते । यतोऽसकलव्यक्ति न तथा प्रकटम् । कुतः । लम्बालकत्वात् । न हि विरहिणी केशान्संमार्जयति । कीदृशं तत् । प्रबलेनाविच्छिन्नेन रुदितेनोच्छूने नेत्रे यस्य । तथा श्वासपरंपराया उष्णत्वाद्भिन्नवर्णो नष्टकान्तिरधरो यस्य । हस्तन्यस्तं करविधृतम् ॥
MD 82 मन्दाक्रान्ता
आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि निभृते त्वं हि तस्य प्रियेति ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: मत्प्रियैवंविधा तवालोके दर्शनपथे पुरा निपतत्यचिराद्यास्यते । एवंविधान्व्यापारान्कुर्वतीं तां द्रक्ष्यसीत्यर्थः । कीदृशी । बलिव्याकुला देवपूजातत्परा । मम सादृश्यमनुकारं विरहवशात्तनु दुर्बलं भावगम्यं चित्तस्थितं लिखन्ती वा । मञ्जुवादिनी सारिकां पञ्जरस्थां पृच्छन्ती वा । किमित्याह । हे निभृते विनीते कच्चिद्भर्तुः स्मरसि मत्पतिं ध्यायसि । यस्मात्त्वं तस्यातीव प्रिया । पुरा निपततीति यावत्पुरानिपातयोर्लट् ॥
MD 83 मन्दाक्रान्ता
उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथं चिद्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: धूसराम्बरेऽङ्के वीणां निधाय गेयमुद्गातुकामा वा । सालोके ते निपततीति सम्बन्धः । कीदृशं गेयम् । मम गोत्रं नामाङ्कचिह्नं यस्य । विरचितानि पदानि शब्दा यस्य । पदस्थो हि स्वरसंघातो गेयम् । मदीयनामान्वितमित्यर्थः । अस्रुभिर्नेत्रजलैरार्द्राः क्रूतास्तन्त्रीः क्लेशेन सारयित्वा योजयित्वा स्वयमपि दत्तां मूर्छनां मारणां विस्मरन्ती । चेतमोऽस्वास्थ्यात् ॥
MD 84 मन्दाक्रान्ता
शेषान्मासान्गमनदिवसप्रस्तुतस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । संयोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: गमनदिवसात्प्रवृत्तो योऽवधिर्वर्षाख्यस्तस्य शेषान्मासानवनौ भुवि विन्यस्यन्ती स्थापयन्ती । कैः । देहल्यां द्वारविशेषे द्वारपूजार्थं दत्तैः पुष्पैर्या गणना तया । रेखापदेषु पुष्पाणि दत्त्वेत्यर्थः । हृदयनिहितारम्भं मनोरथरचितं मत्संगमं वास्वादयन्त्यनुभवन्ती । कथमवगच्छस्येतादृशान्व्यापारान्कुर्वतीत्याह । यम्मादिष्टवियोगे विरहिणीनां प्रायेणैवंविधा एव विनोदाः केलयो भवन्ति ॥
MD 85 मन्दाक्रान्ता
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा या मयोन्मोचनीया । स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिनविषमादेकवेणीं करेण ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तां सखीमुन्निद्रा सतीं त्वमत: कारणान्निशीथेऽर्धरात्रे मत्संदेशैः सुखयितुं पश्येर्न तु दिवसे । कुत इत्याह । सव्यापारत्वादहनि तां विरहो न तथा दुःखयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चित्रव्यापारादिवर्जिताम् । अत एव गुरुतरशुचमतिदुःखिताम् । कोदृशीं ताम् । एवंविधामेकां वेणीं कठोरपरुषात्कपोलफलकादघटितकरजेन पाणिना मारयन्तीमालोकार्थमपास्यन्तीम् । कीदृशीं वेणीम् । याद्ये प्रथमे विरहदिवसे वियोगदिने चूडाशेखरमपास्य तया वेष्टिता । या च नष्टशोकेन मया मोचमीया । एवं ह्येष विरहाचारः । स्नेहाभावाच्च स्पर्शे क्लिष्टां परुषाम् । त्वं कीदृशः । अवनी भुवि न तु खट्टायां यच्छयनं तल्पे तस्यासन्ने निकटे वातायने गवाक्षे तिष्ठति यः स तथोक्तः ॥
MD 86 मन्दाक्रान्ता
सव्यापारामहनि न तथा खेदयेद्विप्रयोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशैः सुखयितुमतः पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तां सखीमुन्निद्रा सतीं त्वमत: कारणान्निशीथेऽर्धरात्रे मत्संदेशैः सुखयितुं पश्येर्न तु दिवसे । कुत इत्याह । सव्यापारत्वादहनि तां विरहो न तथा दुःखयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चित्रव्यापारादिवर्जिताम् । अत एव गुरुतरशुचमतिदुःखिताम् । कोदृशीं ताम् । एवंविधामेकां वेणीं कठोरपरुषात्कपोलफलकादघटितकरजेन पाणिना मारयन्तीमालोकार्थमपास्यन्तीम् । कीदृशीं वेणीम् । याद्ये प्रथमे विरहदिवसे वियोगदिने चूडाशेखरमपास्य तया वेष्टिता । या च नष्टशोकेन मया मोचमीया । एवं ह्येष विरहाचारः । स्नेहाभावाच्च स्पर्शे क्लिष्टां परुषाम् । त्वं कीदृशः । अवनी भुवि न तु खट्टायां यच्छयनं तल्पे तस्यासन्ने निकटे वातायने गवाक्षे तिष्ठति यः स तथोक्तः ॥
MD 87 मन्दाक्रान्ता
आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । मत्संयोगः कथमुपनमेत्स्वप्नजोऽपीति निद्रामाकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: अन्यच्च कोदृशीं ताम् । आधिक्षामां चित्तपीडाकृशाम् । अत एव यादृशे तादृशे विरहशयने संनिकीर्णं क्षिप्तमेकं पार्श्वं यया । अतश्चामावस्यायां प्राचीमूले पूर्वदिङ्मुखे कलामात्रशेषां हिमांशोश्चन्द्रमसे मूर्तिमिवेत्युपमा । तथा निद्रामभिलषन्तीम् । किमर्थम् । मया सह कथं नाम स्वप्ने समागमो घटेतेति । नयनसलिलोत्पीडेन नेत्राम्बुपूरेण रुद्धावकाशां निवृत्तप्रसराम ॥
MD 88 मन्दाक्रान्ता
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् । नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहशयनेष्वस्रुभिर्यापयन्तीम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: दीर्घोष्णत्वादोष्ठपल्लवदाहिनोच्छ्वासेनालकं नूनमुत्क्षिपन्तीमपास्यन्तीम् । कीदृशम् । शुद्धस्नानात्पानीयमात्राभिषेकेण परुषं रूक्षम् । यदि हि सा मङ्गलार्थं कदाचित्स्नाति तत्सुरभितैलामलकादिशून्येन तोयमात्रेण । आगण्डं लम्बत इत्यागण्डलम्बं कपोलस्रस्तम् । तथा मया सहेच्छारतैर्या निशा क्षणवदतिवाहिता तामेवोष्णैर्बाष्पैर्विरहशय्यायां रोदनेन मासमिव यापयन्तीं नयन्तीम् ॥
MD 89 मन्दाक्रान्ता
पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव । चक्षुः खेदात्सजलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: सबाष्पत्वाद्गुरुभिर्दुःसहेः पक्ष्मभिर्लोमभिः खेदाच्चक्षुराच्छादयन्तीं स्थगयन्तीम् । कीदृशम् । पीयूषशीतलान्वातायनप्रविष्टामिन्दोः पादान्किरणान्पूर्वप्रीत्या संमुखं गतं प्रसृतम् । ततो मद्विरहेण खेदकारित्वात्तथैव संनिवृत्तम् । यद्वदेव रभसाद्गतं तद्वदेव प्रत्यागतमित्यर्थः । अतश्चाक्ष्णोः स्थगनान्न प्रबुद्धां न सुप्ताम् । नेत्रनिमीलनात्प्रबोधाभावो निद्राभावश्च स्वापशून्यतया । अतश्च साभ्रेऽहनि स्थलकमलिनीमिवेत्युपमा । सा हि साभ्रत्वान्न प्रबुद्धा दिनवशाच्च न सुप्ता । पूर्वेवात्र वाक्यत्रये क्रिया ॥
MD 90 मन्दाक्रान्ता
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मादित्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥
व्याख्या / Traditional Commentary & Notes
वल्लभदेवः: तस्या भवद्वयस्याया यतो मयि मनः संभृतस्नेहमतिप्रीतिमदतः कारणादित्थं भूतामेवंविधां दशामवाप्तां तामहमाद्यवियोगे तर्कयाम्युत्प्रेक्षे । न च स्नेह एव त्वयि तस्या नास्तीति वक्तुं युज्यत इत्याह । सुभगमिष्टमात्मानं मन्यते सुभगंमन्यः । तद्भावो मां नैव वाचालं यत्किंचनभाषिणं कुरुते । तस्माद्यत्तव मयोक्तमेतदशेषं तवाचिरात्प्रत्यक्षम् । अवश्यं त्वमेवंविधां तो द्विदिनैर्द्रक्ष्यसीत्यर्थः ॥
Full Table of Contents