नैष दोषः। समुदायेषु वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते। तद्यथा पूर्वे पञ्चालाः, उत्तराः कुरवः {मभा. २.२.२४(२५)},
अथ द्वौ द्रोणावर्धाढकं च कर्त्तव्यमर्धतृतीयद्रोणा इति।
न कर्त्तव्यम्।
समुदाये शब्दाः प्रवृत्ताः तेष्ववयवेषु वर्त्तन्ते, योऽवयवस्तं समुदायं न व्यभिचरति (मभा. २.२.२४), यथा द्रोणार्धं द्रोणम्। आढकार्धमाढकमिति।
यद्यर्धं तृतीयमनयोरिति विग्रहः क्रियते तो दोषः स्यात् ? षष्ठ्यर्थो नोपपद्यते।
किं हि द्वयोस्तृतीयमर्धं भवति ? भवानपि पृष्टो व्याचष्टाम्।
अथेह देवदत्तस्य भ्रातेति कः सम्बन्धार्थः ?
एकस्मात् प्रादुर्भाव इति चेत्, वार्त्तं तत, तद्यथा आर्थिकानामेकप्रतिश्रयद्विजानां प्रातरुत्थाय विप्रतिष्ठमानानां न कश्चित् परस्परमभिसम्बन्धो भवति एवंजातीयं भ्रातृत्वं नाम, तत्र चेद् युक्तः षष्ठ्यर्थो दृश्यते इहापि युक्तो दृश्यताम्। द्वयोर्ह्यनुजन्मा तृतीयो भवति। दृश्यते चान्यत्रापि द्वयोस्तृतीयेन संबन्धः। तद्यथा— (रघुवंशे ६.२९)
निसर्गभिन्नास्पदमेकसंस्थमस्मिन् द्वयं श्रीश्च सरस्वती च।
कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि ! तयोस्तृतीया ॥ ५४ ॥
इति।
नन्वेवम् अर्धतृतीया आनीयन्तामित्यर्धानयनं न प्राप्नोति, बहुवचनं च नोपपद्यते।
नैष दोषः। भवति हि बहुव्रीहौ तद्गुणसंविज्ञानमपि/?/। तद्यथा— 'शुक्लवाससमानय,' लोहितोष्णीषा ऋत्विजः प्रचरन्तीति तद्गुण आनीयते, तद्गुणाश्च प्रचरन्ति। बहुवचनं तु द्वित्रादिवदुपपद्यते इति। तत्र यथा आनीयन्तामिति त्रयाणामिव द्वयोरप्यानयनपक्षे बहुवचनमुपपन्नं भवति, तथेहापि भविष्यति।
विषम उपन्यासः। तत्र हि द्वौ वेत्युक्तो त्रयो वेति गम्यते, त्रयो वेत्युक्ते द्वौ वेति गम्यते; सैषा समानाधिकरणपदार्थपञ्चकाधिष्ठाना वाक्। तत्र युक्तं बहुवचनम्, इह त्वर्धं तृतीयमनयोरित्युक्तं, यद्यपि गम्यते त्रयाणां पूरणस्तृतीयो भवतीति तथापि समासेऽन्यपदार्थपरतया द्वयोरेवाभिधानाद् बहुवचनस्य नोत्पत्तिः। तद्गुणसंविज्ञानमपि समासाभिधानपक्ष एवोपपद्यते, समासश्च सामर्थ्ये सति भवति, सामर्थ्यं च वृत्तिवाक्ययोरैकार्थ्यम्, तच्च तदोपजायते, यदि वृत्ताविव वाक्येऽपि समासार्थस्य बहुवचनं भवति ॥
अथ 'किंसब्रह्मचारी'—ति कोऽयं समासः? के सब्रह्मचारिणोऽस्येति।
कः सब्रह्मचारीति कर्मधारयः कस्मान्न भवति?
भवति, यदि क्षेपो गम्यते, यथा किंराजा यो न रक्षति, किंगौः यो न वहति।
केषां सब्रह्मचारीति तत्पुरुषस्तर्हि भवतु कठ इति प्रतिवचनं नोपपद्यते। न ह्यन्यत् पृष्टेनान्यदाख्येयम्, अतः कठानामिति प्रतिवक्तव्यं भवति।
बहुव्रीहावप्येतत् तुल्यमेव, तत्राऽपि के सब्रह्मचारिणोऽस्येति बहुवचनप्रश्ने कठ इति नैकवचनेनोत्तरं भवति।
बहुव्रीहावप्येतत् तुल्यमेव, तत्राऽपि के सब्रह्मचारिणोऽस्येति बहुवचनप्रश्ने कठ इति नैकवचनेनोत्तरं भवति।
नैष दोषः। 'अग्नौ करवाणी'— (मभा. २.२.२४)—ति न्यायेन भविष्यति। तद्यथा कश्चिदाह— 'अग्नो करवाणीति, तत्र कुर्विति तत्कर्त्तर्यनुज्ञाते कर्माप्यनुज्ञातं भवति, अपर आह 'अग्नौ करिष्ये, तत्र क्रियतामिति कर्मण्यनुज्ञाते कर्त्ताप्यनुज्ञातो भवति। एवं यथैव के सब्रह्मचारिणोऽस्येत्युक्ते कठा इति प्रत्युक्ते सम्बन्धादेतद् गम्यते अयमपि कठः, तथा कठ इत्यप्युक्ते संबन्धादेतदवगन्तव्यं तेऽपि कठाः। समासेन तु प्रतिनिर्देष्टुमशक्यम्, उपसर्जनं हि तत्र ते भवन्तीति ॥
(८. समासः)
ऐकपद्यं समासः।
स त्रिधा— १. उपश्लिष्टक्रियः, २. गमितक्रियः, ३. अक्रियश्च। तेषु—
(१) उपश्लिष्टक्रियो द्विधा १. उभयस्थक्रियः २. अन्यतरस्थक्रियश्च। तयोः
उभयस्थक्रियो यथा— कृताकृतम्, क्लिष्टाक्लिशितः, स्नातानुलिप्तः, भ्रष्टलुञ्चितः (काशिका २.२.३१) कृष्टाऽतिकृष्टम्, क्रयाक्रयिका इति।
अन्यतरस्थक्रियो यथा— भोज्योष्णम्, प्राप्तजीविकः, आहिताग्निः, कष्टश्रितः, काकपेया, इध्मप्रव्रश्चन इति।
(२) गमितक्रियो द्विधा १. उभयकारकः, अन्यतरकारकश्च। तयोः—
उभयकारको यथा— दध्नोपश्लिष्ट ओदनो दध्योदनः, गुडेन मिश्रा धाना गुडधानाः, शङ्कुलया कृतः खण्डः शङ्कुलाखण्डः, अक्षेषु प्रसक्तः शौण्डः अक्षशौण्डः, कण्ठे स्थितः कालो यस्य कण्ठेकालः, पञ्चसु कपालेषु संस्कृतः पञ्चकपाल इति।
अन्यतरकारको यथा— 'प्रगत आचार्यः प्राचार्यः', 'अतिक्रान्तो मालामतिमालः, अवक्रुष्टः कोकिलया अवकोकिलः, परिग्लानोऽध्ययनात् पर्यध्ययनः, निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः, प्रपतितानि पलाशान्यस्य प्रपलाश इति।