Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 16 of 34 (Verses 30 shown)
क्‍वचिद् 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' (५.२.३४) 'अकाबूतिलोमाभङ्गाभ्यो रजासि कटच्' (५.२.२९ वा);
क्‍वचिद् 'अवेः संघाते कटच् (५.२.२९ वा), दुग्धे सोढदूसमरीसच (४.२.३६वा) इति;
क्‍वचित् पशुनाभ्यः स्थाने गोष्ठच् (५.२.२९ वा), द्वित्वे गोयुगच् (५.२.२९ वा), 'षट्त्वे षड्गच्' (५.२.२९ वा), इति;
क्‍वचिद् 'भवने क्षेत्रे शाकटशाकिनौ' (५.२.२९ वा.), स्‍नेहे तैलच्' (५.२.२९ वा.);
क्‍वचिद् 'निष्फलतिलात् पिञ्जपेजौ' (४.२.३६ वा. ४.२.८९), 'वाचो व्याहृतार्थायां ठक्' (५.४.३५), इति;
क्‍वचिद् रूढितोऽर्थमनिर्दिश्यैव 'वेः शालच्छङ्कटचौ (५.२.२८), 'संप्रोदश्‍च कटच्' (५.२.२९), 'अवान् कुटारच्च' (५.२.३०), 'नेर्बिडज्—बिरीसचौ' (५.२.३२), 'इनच्पिटाच्चिकचि च' (५.२.३३), कचिकादेशश्‍च इति।
ननु च धातुः प्रथमं साधनेन सम्बध्यते, पश्‍चादुपसर्गेण।
यथेच्छसि तथास्तु। विशेष्यं हि पूर्वसिद्धं विशेषणसम्बन्धमनुभवति। विशेष्यश्‍च धात्वर्थः, क्रियारूप उपसर्गाणाम्। उक्तं च 'क्रियावचनो धातुः' (मभा १.३.१) इति। क्रिया च साध्यमुच्यते, साध्यं च साधनसम्बन्धमन्तरेण न स्यात्। तदुक्तम् —
प्रयोगर्हेषु सिद्धः सन् भेत्तव्योऽर्थे विशिष्यते।
प्राक् तु साधनसम्बन्धात् क्रिया नैवोपजायते ॥ ३६ ॥
तन्न, भाविसम्बन्धतोग्यता समाश्रयणात्। इदंचावश्यमुपगन्तव्यम्, अन्यथा हि क्रियावचनो धातुररित्यपि न स्यात्। न च 'धातोः कर्मणः समानकर्तृकादिच्छायां वा' (३.१.७) इति सन उत्पत्तिः। तदाह—
धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा।
धातुत्वं कर्मभावश्‍च तथान्यदपि दृश्यताम् ॥ ३७ ॥
यदि च धातोः पूर्वमुपसर्गेण सम्बन्धो न स्यात् कथामुच्यते 'विपराभ्यां जेः' (१.३.१९), अधिशीङ्स्थासां कर्म (१.४.४६) इति ?
ननु पूर्वमुपसर्गसंबन्धः क्‍वोपयुज्यते ? साधनमन्तरेण तद्विशेषानभिव्यक्तेः। नैवम्। फलकाले बीजसंस्कारस्येव तस्योपयोगात्। तदुक्तम्
बीजकालेषु संबद्धा यथा लाक्षारसादयः।
वर्णादिपरिणामेन फलानामुपकुर्वते ॥ ३८ ॥
बुद्धिस्थादभिसम्बन्धात् तथा धातूपसर्गयोः।
अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ॥ ३९ ॥
अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम्।
धातूपसर्गयोः शास्त्रे, धातुरेव हि तादृशः ॥ ४० ॥
क्रियाविशेषाः संघातैः प्रक्रम्यन्ते क्‍वचित् तयोः।
तथाहि संग्रामयतेः सोपसर्गादटो विधिछ ॥ ४२ ॥ (वाप. २.१८१)
अतः अनुकामयत इत्यादौ धातोः प्रथममुपसर्गेण साधनेन वा सम्बन्धे न दोषः इति।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →