Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 02

Prakāśa 2: प्रातिपदिकप्रकाशः

प्रकाशः 2 • प्रातिपदिकप्रकाशः

Prakāśa 2 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1013 Verses • Citations: SP 2.1–1013 • 4 Lexicon Terms • Page 8 of 34 (Verses 30 shown)
३. बाह्याभ्यन्तरं यथा— समिध आधीयन्तेऽनेन सामिधेन्यो मन्त्रः, स एव हृदयस्य बन्धनो हृद्य प्रति।
संप्रदानम् — ददातिकर्माप्यं, कर्ममात्राप्यं क्रियाप्यं च।
संप्रदीयते भोजनादिकमस्मै इत्यन्वर्थसंज्ञकं ददातिकर्माप्यम्। यथा— अग्रभोजनं नियुक्तमस्मै दीयते आग्रभोजनिकः, पञ्चास्मै वृद्धिर्वा, आयो वा, लाभो वा, शुल्कं वा, उपदा वा दीयन्ते पञ्चकः पुरुष इति।
कर्मणा यमभिप्रैति स संप्रदानम् (१.४.३३) इति पारिभाषिकसंज्ञकं कर्ममात्राप्यम्। यथा—'राष्ट्रमस्मै निर्दिश्यते राष्ट्रियो राजन्यः, कलिं कुर्वन्त्यस्मै कालेयं गन्धद्रव्यम् इति।
कर्मशब्देन क्रियाया अप्यभिधानात् क्रिययापि यमभिप्रैति स संप्रदानमिति क्रियाऽऽप्यम्। यथा—'अलं कर्मास्मै निर्दिश्यते अलङ्कर्मीणः अन्यूनः, न षडक्षाणि अस्मै भवन्ति अषडक्षीणो मन्त्र' इति।
अपादानम्— निर्दिष्टविषयम्, उपात्तविषयम्, अपेक्षितक्रियं च। तेषु
ध्रुवमपायेऽपादानम् (१.४.२४) इति निर्दिष्टविषयम्। यथा—अग्निः पतत्यस्माद् आग्नेयो ग्रावा, नद्यः स्यन्दन्ते अस्मान्नादेयः शैल इति।
भीत्रार्थादियोगोक्तमुपात्तविषयम्। यथा—कुक्षिं रक्षन्ति अस्मात् कौक्षेयकः कृपाणः, मुद्‌गा भवन्त्यस्मान्मौद्‌गीनं क्षेत्रम् इति। यथा—
अवधिमात्रार्थमपेक्षितक्रियम्। यथा कर्णस्य मूलं कर्णजाहम्, पक्षस्य मूलं पक्षति'—रिति
अधिकरणम्—वैषयिकम्, औपश्‍लेषिकम्, नैमित्तिकं च। तेषु
विविधमनेकप्रकारं जाति—क्रिया गुण द्रव्यादिभिः सिनोतीति विषयो देशकालादिः। विषय एव वैषयिकः, यथा—गावः सन्त्यस्मिन् गोमान् देशः, पौषी पौर्णमास्यस्मिन् पौषो मास इति।
उपश्‍लेषोऽवष्टम्भः, तस्मै प्रभवति औपश्‍लेषिकम्। यथा— दण्डिनोऽस्यां सन्ति दण्डिमती शाला, विंशतिरिहाधिका विंशं शतम् इति।
निमित्तमेव नैमित्तिकम्। यथा—पूर्णो मासोऽस्यां पौर्णमासी रात्रिः, परिखाऽत्र स्यात् परिखेयो देशः इति।
कारकं चान्तरङ्गबहिरङ्गभेदाद् द्विरूपमपि प्रकृत्युपाधेः
१. कारकविशिष्टम्, २. अकारकविशिष्टम्, ३. संबन्धविशिष्टम्, ४. निपातविशिष्टञ्चेति चतुर्धा निर्धार्यते। तेषु —
कर्म कर्मविशिष्टं यथा— अयानयं नेयः अयानयीनः शारः,
करणविशिष्टं यथा— चक्षुषा गृह्यते चाक्षुषं रूपम्,
अधिकरणविशिष्टं यथा— स्त्रुघ्ने कृतो वा लब्धो वा क्रीतो वा स्त्रौघ्नः,
अपादानविशिष्टं यथा— तन्त्रादचिरापहृतस्तन्त्रकः पटः इति।
कर्तृविशिष्टं यथा— अश्‍वैरुह्यत आश्‍वो रथः। कर्तृविशेषणमपि कर्त्तैव चतुर्भिरुह्यते चातुरं शकटम्। अपि च— (काशिका ४.२.१३)
कौमारी सा भवेद् भार्या यां कुमारः प्रपत्स्यते।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →