(बहिरङ्गभेदेषु) करणं संप्रदानमपादानमधिकरणं चेति। (द्र. पृ॰ ८४)
(कर्त्ता) तत्राऽन्तरङ्गभेदेषु कर्त्ता १. शुद्धः २. मिश्रः ३. संकीर्णश्च। तेषु —
१. क्रियाकारकान्तरासंपृक्तः शुद्धः। यथा इष्टमनेन इष्टी यज्ञे, कृतः पूर्वं कटोऽनेन कृतपूर्वी कटमिति।
२. क्रियान्तरसंपृक्तो मिश्रः। यथा— व्याकरणं वेत्ति अधीते वा वैयाकरणः, शश्वद् भवः शाश्वतिकः इति।
३. क्रियाकारकान्तरसंपृक्तः संकीर्णः। यथा— शालयां प्रवेशमर्हति शालीनः अधृष्टः, कूपे प्रक्षेपणमर्हति इति कौपीनमकार्यम्।
(हेतुकर्त्ता) हेतुः १. आत्मस्थक्रियः, २. परस्थक्रियः, ३. परात्मस्थक्रियश्चेति। तेषु —
१. आत्मस्थक्रियो यथा— पारायणं वर्त्तयति पारायणिकः, चान्द्रायणं वर्त्तयति चान्द्रायणिकः इति।
२. परस्थक्रियो यथा— वातं शमयति वातिकं तैलम्, पित्तं कोपयति पैत्तिकमिति।
३. परात्मस्थक्रियो यथा— यथामुखं दर्शयते यथामुखीन आदर्शः, संमुखं दर्शयते संमुखीनः प्रेयानिति।
कर्मकर्त्ता १. अनुद्रिक्तकर्मांशः २. उद्रिक्तकर्मांशः, ३. अनुद्रिक्तोद्रिक्तकर्मांशश्च।
१. अनुद्रिक्तकर्मांशो यथा— अक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं धनम्, पाकेन निर्वृत्तं पाकिमम्,
माणिकम् (५.४.२९) इति। (माणिक इति राघवः)
२. उद्रिक्तकर्मांशो यथा— वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः, षष्टिरात्रेण पच्यन्ते
षष्टिकाः शालय इति।
३. अनुद्रिक्तोद्रिक्तकर्मांशो यथा— वशं गतो वश्यः, शीर्षच्छेदमर्हति शीर्षच्छेद्य इति।
कर्म १. निर्वर्त्त्यम् २. विकार्यम् ३. प्राप्यं च। तत्र —
१. (निर्वर्त्त्यम्) यद् असज्जन्यते, सद् वा प्रकाश्यते तन्निर्वर्त्त्यम्। यथा— उरसा निर्मित औरसः पुत्रः, पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् इति।
२. (विकार्यम्) यस्य प्रकृत्युच्छेदो गुणान्तरं वा विधीयते तद् विकार्यम्। यथा विषेण वध्यो विष्यः शत्रुः, कुसुम्भेन रक्तं कौसुम्भं वस्त्रमिति।
३. (प्राप्यम्) आस्थितमनास्थितं वा क्रियया यदाप्तुमिष्यते तत् प्राप्यम्। यथा नावा तार्यो नाव्यो ह्रदः, अयानयं नेयः अयानयीनः शार (५.२.१ न्यास.) इति।
ननु शारोऽप्यास्थितः कस्मान्न भवति ?
त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम्।
आस्थितं कर्म यत् तत्र द्वैरूप्यं भजति क्रिया ॥ १२ ॥
(वाप. ३.१३५)
यथा पन्थानं गच्छति गर्त्तमुत्तरतीति।
शारस्तु प्राप्य एव। यथा अजां नयति ग्रामम्, वहति भारमिति।
नन्वेवं ग्रामस्य प्राप्यता प्राप्नोति, नाजादेः।
कः पुनराह न प्राप्नोतीतिः किन्तु अकथितत्वेन तत्र क्रियाव्याप्यत्वाद् द्वितीयैव, न प्रत्ययान्तरम् 'गां दोग्धि पयः, पौरवं गां याचत' इति।
(बहिरङ्गम्) बहिरङ्गभेदेषु करणम् बाह्यमाभ्यन्तरं, बाह्याभ्यन्तरं च। तेषु—
१. बाह्यम् यथा— सुपां व्याख्यानः सौपः, ललाटस्य भूषणं ललाटिका।
२. आभ्यन्तरं यथा— मतस्य करणं मत्यम्, चतुर्णां पूरणश्चतुर्थः इति।