तच्छ्रुत्वा विहस्य टिट्टिभ आह—भद्रे न युक्तमुक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या—
बद्ध्वाम्बर-चर-मार्गं व्यपगत-धूमं सदा महद्भयदम् । मन्द-मतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥
मत्तेभ-कुम्भ-विदलन-कृत-श्रमं सुप्तमन्तक-प्रतिमम् । यम-लोक-दर्शनेच्छुः सिंहः बोधयति को नाम ॥
को गत्वा यम-सदनं स्वयमन्तकमादिशत्यजात-भयः । प्राणानपहर मत्तो यदि शक्तिः काचिदस्ति तव ॥
प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे । गुण-दोष-ज्ञः पुरुषो जलेन कः शीतमपनयति ॥
तस्माद्विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च—
यः पराभव-सन्त्रस्तः स्व-स्थानं सन्त्यजेन्नरः । तेन चेत्पुत्रिणी माता तद्वन्ध्या केन कथ्यते ॥
तच्छ्रुत्वा समुद्रश्चिन्तयामास-अहो गर्वः पक्षि-कीटस्यास्य । अथ वा साध्विदमुच्यते—
उत्क्षिप्य टिट्टिभः पादावास्ते भ गभयाद्दिवः । स्व-चित्त-कल्पितो गर्वः कस्य नात्रापि विद्यते ॥
तन्मयास्य प्रमाणं कुतूहलादपि द्रष्टव्यम् । किं ममैषोऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष्टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्यपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिट्टिभमूचे-भो मूर्ख ! कथितमासीन्मया ते यत्समुद्रवेलया अण्डानां विनाशो भविष्यति तद्दूरतरं व्रजावः परं मूढतयाहंकारमाश्रित्य मम वचनं न करोषि । अथवा साध्विदमुच्यते ।
सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥
टिट्टिभ आह—कथमेतत् ? साब्रवीत्—
कथा १३ कम्बुग्रीवाख्य-कूर्म-कथा
अस्ति कस्मिंश्चिज्जलाशये कम्बु-ग्रीवो नाम कच्छपः । तस्य च सङ्कट-विकट-नाम्नी मित्रे हंस-जातीये परम-स्नेह-कोटिमाश्रिते नित्यमेव सरस्-तीरमासाद्य तेन सहानेक-देवर्षि-महर्षीणां कथाः कृत्वास्त-मय-वेलायां स्व-नीडा-संश्रयं कुरुतः । अथ गच्छता कालेनावृष्टि-वशात्सरः शनैः शनैः शोषमगमत् । ततस्तद्-दुःख-दुःखितौ तावूचतुः-भो मित्र ! जम्बाल-शेषमेतत्-सरः सञ्जातम् । तत्कथं भवान्भविष्यतीति व्याकुलत्वं नो हृदि वर्तते ।
तच्छ्रुत्वा कम्बुग्रीव आह—भोः, साम्प्रतं नास्त्यस्माकं जीवितव्यं जलाभावात् । तथाप्युपायश्चिन्त्यतामिति । उक्तं च—
त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात्कदाचिद्गतिमाप्नुयात्सः । यथा समुद्रेऽपि च पोत-भङ्गे सांयात्रिको वाञ्छति तर्तुमेव ॥
अपरं च—
मित्रार्थे बान्धवार्थे च बुद्धिमान्यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥
तदानीयतां काचिद्दृढ-रज्जुर्लघु-काष्ठं वा । अन्विष्यतां च प्रभूत-जल-सनाथं सरः, येन मया मध्य-प्रदेशे दन्तैर्गृहीते सति युवां कोटि-भागयोस्तत्-काष्ठं मया सहितं सङ्गृह्य तत्-सरो नयथः ।
तावूचतुः-भो मित्र !एवं करिष्यावः । परं भवता मौन-व्रतेन स्थातव्यम् । नो चेत्तव काष्ठात्पातो भविष्यति ।
तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभाग-व्यवस्थितं किंचित्पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुः-अहो चक्राकारं किमपि पक्षिभ्यां नीयते । पश्यत पश्यत ।
अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह—भोः ! किमेष कोलाहलः ?इति वक्तु-मना अर्धोक्ते पतितः पौरैः खण्डशः कृतश्च । अतोऽहं ब्रवीमि-सुहृदां हित-कामानामिति । तथा च—
अनागत-विधाता च प्रत्युत्पन्न-मतिस्तथा । द्वावेतौ सुखमेधेते यद्-भविष्यो विनश्यति ॥
टिट्टिभ आह—कथमेतत् ?
साब्रवीत्- कथा १४अनागत-विधातादि-मत्स्य-त्रय-कथा
कस्मिंश्चिज्जलाशयेऽनागत-विधाता प्रत्युत्पन्न-मतिर्यद्-भविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचित्तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्य-जीविभिरुक्तम्-यदहो बहु-मत्स्योऽयं ह्रदः । कदाचिदपि नास्माभिरन्वेषितः । तदद्य तावदाहार-वृत्तिः सञ्जाता । सन्ध्या-समयश्च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः ।
अतस्तेषां तत्-कुलिश-पातोपमं वचः समाकर्ण्यानागत-विधाता सर्वान्मत्स्यानाहूयेदमूचे-अहो, श्रुतं भवद्भिर्यन्मत्स्य-जीविभिरभिहितम् । तद्रात्रावपि गम्यतां किञ्चिन्निकटं सरः । उक्तं च—
अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् । संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ॥
तन्नूनं प्रभात-समये मत्स्य-जीविनोऽत्र समागम्य मत्स्य-सङ्क्षयं करिष्यन्ति । एतन्मम मनसि वर्तते । तन्न युक्तं साम्प्रतं क्षणमप्यत्रावस्थातुम् । उक्तं च—
विद्यमाना गतिर्येषामन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देह-भङ्गं कुल-क्षयम् ॥