Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 15 of 36 (Verses 30 shown)
PT 1.421 इन्द्रवज्रा
त्याज्यं न धैर्यं विधुरेऽपि दैवे धैर्यात्कदाचित्स्थित्माप्नुयात्सः । याते समुद्रेऽपि हि पोत-भङ्गे सांयात्रिको वाञ्छति कर्म एव ॥
PT 1.422 वसन्ततिलका
तथा च- उद्योगिनं सततमत्र समेति लक्ष्मीर्दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्म-शक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥
तदेवं ज्ञात्वा सुगूढ-बुद्धि-प्रभावेण यथा तौ द्वावपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च—
PT 1.424 अनुष्टुप्
सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति । कौलिको विष्णु-रूपेण राज-कन्यां निषेवते ॥
सोऽब्रवीत्- कथा ५ कौलिक-रथकार-कथा
कस्मिंश्चिदधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्-प्रभृति सहचारिणौ परस्परमतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः । अथ कदाचित्तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रा-महोत्सवः संवृत्तः । तत्र च नट-नर्तक-चारण-सङ्कुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद्राज-कन्यां करेणुकारूढां सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत इइव काम-शरैर्हन्यमानः सहसा भूतले निपपात । अथ तं तद्-अवस्थमवलोक्य रथकारस्तद्-दुःख-दुःखित आप्त-पुरुषैस्तं समुत्क्षिप्य स्व-गृहमानाययत् । तत्र च विविधैः शीतोपचारैश्चिकित्सकोपदिष्टैर्मन्त्र-वादिभिरुपचर्यमाणैश्चिरात्कथंचित्स-चेतनो बभूव ।
ततो रथकारेण पृष्टः-भो मित्र ! किमेवं त्वमकस्माद्विचेतनः सञ्जातः ? तत्कथ्यतामात्म-स्वरूपम् ?
स आह—वयस्य ! यद्येवं तच्छृणु मे रहस्यं येन सर्वामात्म-वेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठ-प्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद्वा किञ्चित्प्रणय्>अतिरेकादयुक्तं तव मयानुष्ठितम् ।
सोऽपि तदाकर्ण्य बाष्प-पिहित-नयनः स-गद्गदमुवाच-वयस्य, यत्किञ्चिद्दुःख-कारणं तद्वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च—
PT 1.431 अनुष्टुप्
औषधार्थ-सुमन्त्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥
तदेषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि ।
कौलिक आह—वयस्य,एतेषामन्येषामपि सहस्राणामुपायानामसाध्यं तन्मे दुःखम् । तस्मान्मम मरणे मा काल-क्षेपं कुरु ।
रथकार आह—भो मित्र ! यद्यप्यसाध्यं तथापि निवेदय येनाहमपि तदसाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणमपि त्वद्-वियोगं सहिष्ये । एष मे निश्चयः ।
कौलिक आह—वयस्य, यासौ राज-कन्या करेणुमारूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकर-ध्वजेन ममेयमवस्था विहिता । तन्न शक्नोमि तद्-वेदनां सोढुम् । तथा चोक्तम्—
PT 1.436 वसन्ततिलका
मत्तेभ-कुम्भ-परिणाहिनि कुङ्कुमार्द्रे तस्याः पयोधर-युगे रति-खेद-खिन्नः । वक्षो निधाय भुज-पञ्जर-मध्य-वर्ती स्वप्स्ये कदा क्षणमवाप्य तदीय-सङ्गम् ॥
PT 1.438 स्रग्धरा
रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् । कुर्वत्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु खेदं यन्मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम् ॥
रथकारोऽप्येवं स-कामं तद्-वचनमाकर्ण्य स-स्मितमिदमाह-वयस्य ! यद्येवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तदद्यैव तया सह समागमः क्रियतामिति ।
कौलिक आह—वयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षा-पुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत्किं मामसत्य-वचनेन विडम्बयसि ?
रथकार आह—मित्र, पश्य मे बुद्धि-बलम् ।
एवमभिधाय तत्-क्षणात्कील-सञ्चारिणं वैनतेयं बाहु-युगलं वायुज-वृक्ष-दारुणा शङ्ख-चक्र-गदा-पद्मान्वितं स-किरीट-कौस्तुभमघटयन् । ततस्तस्मिन्कौलिकं समारोप्य विष्णु-चिह्नितं कृत्वा कील-सञ्चरण-विज्ञानं च दर्शयित्वा प्रोवाच-वयस्य,अनेन विष्णु-रूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्त-भूमिक-प्रासाद-प्रान्त-गतां मुग्ध-स्वभावां त्वां वासुदेवं मन्यमानां स्वकीय-मिथ्या-वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्त-विधिना भज ।
कौलिकोऽपि तदाकर्ण्य तथा-रूपस्तत्र गत्वा तामाह-राज-पुत्रि, सुप्ता किं वा जागर्षि ?अहं तव कृते समुद्रात्सानुरागो लक्ष्मीं विहायैवागतः । तत्क्रियतां मया सह समागमः इति ।
सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य स-विस्मया शयनादुत्थाय प्रोवाच-भगवन् !अहं मानुषी कीटिकाशुचिः । भगवांस्त्रैलोक्य-पावनो वन्दनीयश्च । तत्कथमेतद्युज्यते ।
कौलिक आह—सुभगे, सत्यमभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोप-कुल-प्रसूता प्रथम आसीत् । सा त्वमत्रावतीर्णा । तेनाहमत्रायातः ।
इत्युक्ता सा प्राह-भगवन्, यद्येवं तन्मे तातं प्रार्थय । सोऽप्यविकल्पं मां तुभ्यं प्रयच्छति ।
कौलिक आह—सुभगे, नाहं दर्शन-पथं मानुषाणां गच्छामि । किं पुनरालाप-करणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच्छापं दत्त्वा सान्वयं ते पितरं भस्मसात्करिष्यामि इति । एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायामानयत् । ततश्च रात्रि-शेषं यावद्वात्स्यायनोक्त-विधिना निषेव्य प्रत्यूषे स्व-गृहमलक्षितो जगाम ।
एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित्कञ्चुकिनस्तस्या अधरोष्ठ-प्रवाल-खण्डनं दृष्ट्वा मिथः प्रोचुः-अहो ! पश्यतास्या राज-कन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत्कथमयं सुरक्षितेऽप्यस्मिन्गृह एवंविधो व्यवहारः । तद्राज्ञे निवेदयामः ।
एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः-देव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तः-पुरे कश्चित्प्रविशति । तद्देवः प्रमाणमिति । तच्छ्रुत्वा राजातीव व्याकुलित-चित्तो व्यचिन्तयत्—
PT 1.450 इन्द्रवज्रा
पुत्रीति जाता महतीह चिन्ता कस्मै प्रदेयेति महान्वितर्कः । दत्त्वा सुखं प्राप्स्यति वा न वेति कन्या-पितृत्वं खलु नाम कष्टम् ॥
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →