Skip to main content
Search
Ch. 1 PT 1.427
Full Chapter
PT • Chapter 1: Canto 1

PT 1.427

Canonical Ref: PT 1.427
Sanskrit (Devanāgarī)
कस्मिंश्चिदधिष्ठाने कौलिक-रथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्-प्रभृति सहचारिणौ परस्परमतीव स्नेह-परौ सदैक-स्थान-विहारिणौ कालं नयतः । अथ कदाचित्तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रा-महोत्सवः संवृत्तः । तत्र च नट-नर्तक-चारण-सङ्कुले नाना-देशागत-जनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद्राज-कन्यां करेणुकारूढां सर्व-लक्षण-सनाथां कञ्चुकि-वर्ष-धर-परिवारितां देवता-दर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्ट-ग्रह-गृहीत इइव काम-शरैर्हन्यमानः सहसा भूतले निपपात । अथ तं तद्-अवस्थमवलोक्य रथकारस्तद्-दुःख-दुःखित आप्त-पुरुषैस्तं समुत्क्षिप्य स्व-गृहमानाययत् । तत्र च विविधैः शीतोपचारैश्चिकित्सकोपदिष्टैर्मन्त्र-वादिभिरुपचर्यमाणैश्चिरात्कथंचित्स-चेतनो बभूव ।
Canonical CTS URN Reference
Pañcatantram, PT 1.427. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.426) All Verses in Chapter 1 Next Verse (PT 1.428) →