Skip to main content
Search
PT
Pañcatantram • Chapter 01

Canto 1

प्रथमं तन्त्रम् (मित्र-भेदः)

Canto 1 of Pañcatantram.

Total: 1051 Verses • Citations: PT 1.1–1051 • 1 Lexicon Terms • Page 10 of 36 (Verses 30 shown)
PT 1.271 अनुष्टुप्
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥
PT 1.272 अनुष्टुप्
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥
PT 1.273 अनुष्टुप्
नासां कश्चिदगम्योऽस्ति नासां च वयसि स्थितिः । विरूपं रूपवन्तं वा पुमानित्येव भुज्यते ॥
PT 1.274 अनुष्टुप्
रक्तो हि जायते भोग्यो नारीणां शाटिका यथा । घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥
PT 1.275 अनुष्टुप्
अलक्तिको यथा रक्तो निष्पीड्य पुरुषस्तथा । अबलाभिर्बलाद्रक्तः पाद-मूले निपात्यते ॥
एवं स राजा बहुविधं विलप्य तत्-प्रभृति दन्तिलस्य प्रसाद-पराङ्मुखः संजातः । किं बहुना राज-द्वार-प्रवेशोऽपि तस्य निवारितः । दन्तिलोऽप्यकस्मादेव प्रसाद-पराङ्मुखमवनिपतिमवलोक्य चिन्तयामास-अहो साधु चेदमुच्यते—
PT 1.277 शार्दूलविक्रीडितम्
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः । कः कालस्य न गोचरान्तर-गतः कोऽर्थी गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥
PT 1.279 शालिनी
काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्व-चिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥
अपरं मयास्य भूपतेरथवान्यस्यापि कस्यचिद्राज-सम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत्किमेतत्-पराङ्मुखो मां प्रति भूपतिः इति ।
एवं तं दन्तिलं कदाचिद्राज-द्वारे विष्कम्भितं विलोक्य संमार्जन-कर्ता गोरम्भो विहस्य द्वारपालानिदमूचे-भो भो द्वारपालाः ! राज-प्रसादाधिष्ठितोऽयं दन्तिलः स्वयं निग्रहानुग्रह-कर्ता च । तदनेन निवारितेन यथाहं तथा यूयमप्यर्ध-चन्द्र-भाजिनो भविष्यथ । तच्छ्रुत्वा दन्तिलश्चिन्तयामास-नूनमिदमस्य गोरम्भस्य चेष्टितम् । अथवा साध्विदमुच्यते—
PT 1.282 अनुष्टुप्
अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते । अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥
PT 1.283 अनुष्टुप्
अपि कापुरुषो भीरुः स्याच्चेन्नृपति-सेवकः । तथापि न पराभूतिं जनादाप्नोति मानवः ॥
एवं स बहु-विधं विलप्य विलक्ष-मनाः सोद्वेगो गत-प्रभावः स्व-गृहं निशामुखे गोरम्भमाहूय वस्त्र-युगलेन संमान्येदमुवाच-भद्र ! मया न तदा त्वं राग-वशान्निःसारितः । यतस्त्वं ब्राह्मणानामग्रतोऽनुचित-स्थाने समुपविष्टो दृष्ट इत्यपमानितः । तत्क्षम्यताम् ।
सोऽपि स्वर्ग-राज्योपमं तद्-वस्त्र-युगलमासाद्य परं परितोषं गत्वा तमुवाच-भोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तदस्य संमानस्य कृते पश्य मे बुद्धि-प्रभावं राज-प्रसादं च । एवमुक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदमुच्यते—
PT 1.286 अनुष्टुप्
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधो-गतिम् । अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥
ततश्चान्ये-द्युः स गोरम्भो राज-कुले गत्वा योग-निद्रां गतस्य भूपतेः संमार्जन-क्रियां कुर्वन्निदमाह-अहो अविवेकोऽस्मद्-भूपतेः । यत्पुरीषोत्सर्गमाचरंश्चर्भटी-भक्षणं करोति ।
तच्छ्रुत्वा राजा स-विस्मयं तमुवाच-रे रे गोरम्भ ! किमप्रस्तुतं लपसि । गृह-कर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिदहमेवंविधं कर्म समाचरन्दृष्टः ?
सोऽब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणेन संमार्जनं कुर्वाणस्य मम बलान्निद्रा समायाता । तयाधिष्ठितेन मया किंचिज्जल्पितम् । तन्न वेद्मि । तत्प्रसादं करोतु स्वामी निद्रा-परवशस्य इति ।
एवं श्रुत्वा राजा चिन्तितवान्-यन्मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद्यथायं व्यतिकरोऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन्मया न युक्तं कृतं यत्स वराकः संमानेन वियोजितः । न तादृक्-पुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तद्-अभावेन राज-कृत्यानि पौर-कृत्यानि न सर्वाणि शिथिलतां व्रजन्ति ।
एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्ग-वस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वातिति ।
संजीवक आह—भद्र एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यमिति । एवमभिहिते दमनकस्तमादाय पिङ्गलक-सकाशमगमत् । आह च-देव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायत-ककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिमुपरि दत्त्वा मान-पुरःसरमुवाच-अपि शिवं भवतः । कुतस्त्वमस्मिन्वने विजने समायातोऽसि ?
तेनाप्यात्मक-वृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस्तथा सर्वं निवेदितम् । तच्छ्रुत्वा पिङ्गलकः सादरतरं तमुवाच-वयस्य न भेतव्यम् । मद्-भुज-पञ्जर-परिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्-समीप-वर्तिना भाव्यम् । यतः कारणाद्बह्व्-अपायं रौद्र-सत्त्व-निषेवितं वनं गुरूणामपि सत्त्वानामसेव्यम् । कुतः शष्प-भोजिनाम् ।
एवमुक्त्वा सकल-मृग-परिवृतो यमुना-कच्छमवतीर्योदक-ग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततश्च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीविकेन सह सुभाषित-गोष्ठीमनुभवन्नास्ते । अथवा साध्विदमुच्यते—
PT 1.295 अनुष्टुप्
यदृच्छयाप्युपनतं सकृत्सज्जन-सङ्गतम् । भवत्यजरमत्यन्तं नाभ्यास-क्रममीक्षते ॥
संजीवकेनाप्यनेक-शास्त्रावगाहनादुत्पन्न-बुद्धि-प्रागल्भ्येन स्तोकैरेवाहोभिर्मूढ-मतिः पिङ्गलको धीमांस्तथा कृतो यथारण्य-धर्माद्वियोज्य ग्राम्य-धर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलक-संजीवकावेव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृग-जनो दूरीभूतस्तिष्ठति । करटक-दमनकावपि प्रवेशं न लभेते । अन्यच्च सिंह-पराक्रमाभावात्सर्वोऽपि मृग-जनस्तौ च शृगालौ क्षुधा-व्याधि-बाधिता एकां दिशमाश्रित्य स्थिताः ।
PT 1.298 अनुष्टुप्
फल-हीनं नृपं भृत्याः कुलीनमपि चोन्नतम् । सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥
PT 1.300 अनुष्टुप्
अपि संमान-संयुक्ताः कुलीना भक्ति-तत्-पराः । वृत्ति-भङ्गान्महीपालं त्यजन्त्येव हि सेवकाः ॥
← Previous (Ch. 0) Full Table of Contents Next (Ch. 2) →