Skip to main content
Search
Ch. 1 PT 1.290
Full Chapter
PT • Chapter 1: Canto 1

PT 1.290

Canonical Ref: PT 1.290
Sanskrit (Devanāgarī)
एवं श्रुत्वा राजा चिन्तितवान्-यन्मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद्यथायं व्यतिकरोऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन्मया न युक्तं कृतं यत्स वराकः संमानेन वियोजितः । न तादृक्-पुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तद्-अभावेन राज-कृत्यानि पौर-कृत्यानि न सर्वाणि शिथिलतां व्रजन्ति ।
Canonical CTS URN Reference
Pañcatantram, PT 1.290. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (PT 1.289) All Verses in Chapter 1 Next Verse (PT 1.291) →