Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 34 of 40 (Verses 30 shown)
यद्येवं भाविनी संज्ञा विधास्यते। तद्‌यथा— 'कश्‍चित् तन्तुवायमाह अस्य सूत्रस्य शाटकं वयेति।
स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः। शाटको वातव्यश्‍चेति विप्रतिषिद्धम्। भाविनी तु खल्वस्य संज्ञाभिप्रेता; स मन्यते — 'वातव्यम्, यस्मिन्नुते शाटक इत्येतद्‌भवती'—ति। एवमिहापि— 'तस्मिन् द्विगुर्भवति यस्याभिनिर्वृत्तस्य प्रत्यय उत्तरपदमित्येते संज्ञे भविष्यतः इति।
ननु चोक्‍तम् 'अर्थे चेत् तद्धिताऽनुत्पत्तिर्बहुव्रीहिवदि'—ति। नैष दोषः। नावश्यमर्थशब्दोऽभिधेय एव वर्त्तते, किं तर्हि, स्यादर्थेऽपि। तद् यथा— 'दारार्थं भिक्षामहे, जनार्थं भिक्षामहे; दारा नः स्युः जना नः स्युरिति। एवमिहापि तद्धितार्थे द्विगुर्भवति तद्धितः स्यादिति। द्विगोर्वा लुग्वचनं ज्ञापकम् (वा.५); यदयं 'द्विगोर्लुगनपत्ये' (४.१.८८) इति द्विगोस्तद्धितस्य लुकं शास्ति, तज्ज्ञापयति— 'उत्पद्यते द्विगोस्तद्धित' इति।
यद्येवम् समाहारसमूहयोरविशेषात् समाहारग्रहणमनर्थकम्, 'तस्य समूह' (४.२.३७) इति तद्धितार्थे/नैव कृतत्वात्। तथाहि 'समाहारः समूह' इत्यविशिष्टावेतावर्थौ। तत्र समूह इव समाहारेऽपि तद्धितार्थे द्विगुरित्येव भविष्यति। यदि तद्धितार्थे द्विगुर्भवतीत्युच्यते, तद्धितोत्पत्तिः प्राप्नोति। उत्पद्यताम् लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति। कानि पुनस्तानि? 'पञ्चपूली' 'दशपूली' इति।
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (४.१.२२) ङीप्प्रतिषेधः प्राप्नोति; 'पञ्चगवं दशगवमिति 'गोरतद्धितलुकि (५.४.९२) इति टच् न प्राप्नोति।
नैष दोषः, अविशेषेण द्विगो ङीब्भवतीत्युक्त्वा 'अपरिमाणबिस्ताचितकम्बल्येभ्यः समाहारे इति वक्ष्यामि; अविशेषेण च गोष्टच् भवतीत्युक्त्वा द्विगोः समाहारे इति वक्ष्यामि; तदुभयमपि नियमार्थं भविष्यति 'समाहार एव नान्यत्रे'—ति।
एवं तर्हि अभिधानार्थं समाहारग्रहणम्; समाहारेणाभिधानं यथा स्यान्न तद्धितार्थेन।
यदि स्यात् को दोषः स्यात् ?
तद्धितोत्पत्तिः प्रसज्येत।
प्रसज्यताम्, लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति।
न सर्वाणि परिहृतानि। 'पञ्चकुमारि, दशकुमारी'—ति लुक् तद्धितलुकि (१.२.४९) इति ङीपो लुक् प्रसज्यत इति।
ननु च यदि तद्धितार्थे द्विगुरित्युच्यते 'पञ्चखट्वः, दशखट्वः' इति मत्वर्थेऽपि द्विगुसंज्ञायां 'द्विगोः' (४.१.२१) इतिकारः प्राप्नोति। बहुव्रीहिसंज्ञया द्विगुसंज्ञाया बाधितत्वान्न भविष्यति; समानाधिकरणानां मत्वर्थे बहुव्रीहिर्भवति।
यद्युत्तरपदे द्विगुरित्युच्यते, उत्तरपदोक्तिर्वक्‍तव्या। इयमुच्यते — 'उत्तरपदेन परिमाणिना द्विगोः समासवचनम् (वा०९); 'द्वौ मासौ जातस्य द्विमासजात:', द्वे अहनी जातस्य द्व‌‍यह्नजात' इति।
किमुच्यते परिमाणिनैवेति, न पुनरन्यत्रापि; तद् यथा 'पञ्चगवप्रियः पञ्चगवधन' इति। अन्यत्र समुदायस्य बहुव्रीहित्वादुत्तरपदं प्रसिद्धमेव (वा.१०); तथाहि— 'अनेकमन्यपदार्थे (२.२.२४) समस्यते, बहुव्रीहिश्‍च समासे। भवति।
अथ द्वन्द्वस्य का वार्त्ता ? द्वन्द्वोऽग्रतो विशेषेण व्याकरिष्यत इति।
अथ बहुभिर्बहुव्रीहिः — (वेसं. १.२१)
चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्त सुयोधनस्य' इति। तत्र चञ्चद्‍भ्यां भुजाभ्यां भ्रमितायाश्‍चण्डाया गदाया अभिघातेन सञ्चूर्णितमूरुयुगलमस्येति विग्रहः। न चैतद् वाच्यम्, समानाधिकरणानामेव बहुव्रीहि, 'सप्तमीविशेषणे बहुव्रीहौ (२.२.३५) इति ज्ञापकेन वैयधिकरण्येऽपि बहुव्रीहेः स्मरणात्। एतेन सर्वपदप्रधानो द्वन्द्वोऽपि व्याख्यातः, यथा 'सूर्याऽनलाऽनिलहिमांशु— धनेशशक्रप्रेताधिनाथवरुणाः करुणास्पदं नः' (मायुराजस्योदात्तराघवे २.२९) इति।
ननु चान्यपदार्थे बहुव्रीहिः स्मर्यते। तत्र 'चित्रगुर्देवदत्त' इति देवदत्तादेरनुप्रयोगो न प्राप्नोति; नहि चैत्रादिशब्दप्रयोगादवधृतेषु चैत्रादिषु पुनश्‍चैत्रादिश्रुतयः प्रयुज्यन्ते। नैवम्; चित्रगुशब्दः चित्रगवीनां स्वामिसामान्यमभिधत्ते। तत्राऽवश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः।
यत्र त्वसाधारणविशेषणादिभिर्विशेष एव समासस्तत्रानुप्रयोगो न भवत्येव; यथा त्रिलोचनः शूलपाणिरिति। एवं तर्हि, सामान्यवचनानामनुप्रयोगस्याऽप्राप्तिः। यथा— 'चित्रगु सर्वम्', 'चित्रगु विश्‍वम्' इति। सामान्यमपि यथा विशेषः, तथाहि यथा चित्रगुशब्दादिप्रयोगे विशेषान्तराणां निवृत्तिः तथा सर्वादिशब्दप्रयोगे विशेषाणां निवृत्तिः प्रतीयते।
यदि वा, 'चित्रा गावोऽस्य देवदत्तस्योति षष्ठ्यर्थस्य समासेनाऽभिधानात् षष्ठी नाऽनुप्रयुज्यते, सम्बन्धी तु न समासोपादान इत्यनुप्रयुज्यते।
एवं तर्हि विभक्त्यर्थाभिधायिनो बहुव्रीहिपदस्य देवदत्तादिभिर्द्रव्यवचनैः सामानाधिकरण्यं न प्राप्नोति।
मैवम्; मतुपोऽपि संबन्धार्थत्वात् द्रव्यवचनैरसामानाधिकरण्यमेव।
न च बहुव्रीहेर्विभक्त्यर्थाभिधायिनो मतुप्प्रत्ययो विधातुं शक्यते; स हि प्रथमासमर्थादस्त्युपाधिर्विधीयते; न च विभक्त्यर्थवृत्तेर्बहुव्रीहिपदस्यास्त्यादिक्रियाभिः सामानाधिकरण्येन सम्बन्धो भवति।
अथ अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति सामानाधि /?/करण्यमुपपत्स्यते।
तन्न; अभिहितोऽप्यसौ यतो यत्रेत्यादिवन्न स्वरूपं हास्यति।
Full Table of Contents Next (Ch. 2) →