तमिद् (म् इ) द्वर्धन्तु नो गिरः, (ऋवे.८.९२.२१,निरुक्तम् १.१०.३)
अयम् उ ते समतसि, (ऋवे. १.३०.४; निरुक्त १.११.४)
देवः स तु, न मानुषः,
इन्दवो वामुशन्ति हि, (ऋवेः १.२.४)
विलोलदृष्टं हरिणाङ्गनासु च (कुसं. ५.१३) इति।
(६.३ वाक्यपूरणार्थाः)
एते च, अन्ये च, नूनम्, इव, एव इति खलु इत्यादयो वाक्यपूरणार्थाः।
यथा— वि सीम् अतः सुरुचो वेन आवः, (तैसं. ४.२.८.२ निरुक्त १.७.३)
नरं च नारायणमेव चेति,
नूनं सा ते प्रति वरं जरित्रे, (ऋवे. २.११.२१, निरुक्तम् १.७.१)
कथमिव एतद् भविष्यति,
एवा ह्येव एवा हीन्द्र, (तैआ. १.२०, काशिका ६.३.१३६)
अथो खल्वाहुः,
अभीषुणः सखीनाम्, (ऋवे.४.३१.३,काशिका६.३.१३४;
८.३.१०७, ८.४.२७)
आ एवं नु मन्यसे इति। (मभा. काशिका १.१.१४)
(६.४. अलङ्कारपूरणार्थाः)
भङ्गश्लेष—भाषाश्लेष—यमक—वक्रोक्ति—चित्र—अनुप्रास—पदावृत्ति—
प्रश्नोत्तर—प्रभृतयोऽलङ्काराः। तदर्थाः यथा—
(भङ्गश्लेषार्थाः)
न वार्यन्ते, न चार्यन्ते, न स्मार्यन्ते, न हसन्ति, न हीयन्ते न वैरायते इति भङ्गश्लेषे,
(भाषाश्लेषार्थाः)
स हि अहो रणे कत्थतेपि योनराया इति भाषाश्लेषे,
(यमकश्लोके)
योषितां गात्रं न खलूनं नखलूनमिति यमकश्लोके,
(वक्रोक्तौ)
शस्त्रं न खलु वोढव्यमिति वक्रोक्तौ,
(चित्रे)
ननु हो मथना राघो घोरा नाथ महो नु न' इति चित्रे,
(अनुप्रासे)