Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 7 of 40 (Verses 30 shown)
६. संबन्धिरूपाणि यथा— अन्तः, अन्तरा, ऊर्ध्वम्, बहिः, पारे, मध्ये, समया, निकषा, आरात्, विष्वक्, पुरः, पश्‍चात् इति।
१. क्रियापेक्षीणि यथा— द्वन्द्वम्, यथायथम्, मिथः, अन्योन्यम्, परस्परम्, इतरेतराम्, परोपराम्, उत्तराधरम्, अधरोत्तरमिति।
२. क्रियाद्रव्यापेक्षीणि यथा— साकम्, सार्धम्, सह, समम्, अमा, विना, ऋते, पृथक्, नाना, अपृथगिति।
३. क्रियाविशेषणानि यथा— अभीक्ष्णम्, मुहुः, पुनः, भूयः, युगपत्, अजस्त्रम्, अनिशम्, शनैः, उपांशु, मङ्क्षु, झटिति, प्राय इति।
४. क्रियाद्रव्यविशेषणानि यथा— अलम्, बलवत्, सुष्ठु, मृषा, वृथा, मिथ्या, मुधा, अद्‌धा, ऋधक्, उच्चैः, नीचैरिति।
५. क्रियाविशिष्टरूपाणि यथा— शश्‍वत्, सपदि, संप्रति, पुरा, असंप्रति, सनातनम्, साम्प्रतम्, जातु, बाढम्, फाण्टम्, स्वयम्, कामम् इति।
६. क्रियाद्रव्यविशिष्टरूपाणि यथा— आविः, प्रादुः, तिरस्, साक्षात्, अलम्, प्राध्वम्, सत्, असत्, धिक्, हिरुक्, तूष्णीम्, जोषम् इति।
(२. अव्ययप्रातिपदिकेषु निपाताः)
जात्यादिप्रवृत्तिनिमित्तानुपग्राहित्वेन असत्त्वभूतार्थाभिधायिनोऽलिङ्गसंख्याशक्तय उच्चावचेष्वर्थेषु निपतन्तीत्यव्ययविशेषा एव चादयो निपाताः। यदाह—'चादयोऽसत्त्वे' (१.४.५७) इति।
ते (निपाताः) खलु १. विध्यर्याः, २. अर्थवादार्थाः, ३. अनुवादार्थाः, ४. निषेधार्था. ५. विधिनिषेधार्थाः, ६. अविधिनिषेधार्थाश्‍चेति षोढा संभवन्ति। तेषु—
१. (विधिः) १. मङ्गलम्, २. अधिकारः, ३. संभ्रमः, ४. नियोगः, ५. समुच्चयः, ६. विकल्प इति विधिः।
२. (अर्थवादः) १. कुत्सा, २. प्रशंसा, ३. विषादः, ४. हर्षः, ५. ईर्ष्या, ६. विस्मय, इत्यर्थवादः।
३. (अनुवादः) १. स्मरणम्, २. उपमा, ३. अभ्युपगमः, ४. अनुप्रश्‍नः, ५. परकृतिः, ६. पुराकल्प इत्यनुवादः।
४. (निषेधः) १. प्रतिषेधः, २. निवारणम्, ३. अपाकरणम्, ४. असूया, ५. गर्हणा, ६. विनिग्रह इति निषेधः।
५. (विधिनिषेधः) १. संबोधनम्, २. अनुकम्पा, ३. वितर्कः, ४. प्रश्‍नः, ५. पक्षान्तरम्, ६. हेत्वपदेश इति विधिनिषेधः।
६. (अविधिनिषेधः) १. पदपूरणम्, २. पादपूरणम्, ३. वाक्यपूरणम्, ४. अलङ्कारपूरणम्, ५. वाक्यालङ्कारः, ६. पदसंस्कार इत्यविधिनिषेधः।
(१.१ मङ्गलार्थाः) ओम्, अथ, स्वस्ति, दिष्ट्या, नह, स्म, शश्‍वत्, कच्चिदिति मङ्गलार्था। यथा —
'ओम् अग्निमीडे पुरोहितम्' (ऋवे. १.१.१),
'अथातो ब्रह्मजिज्ञासा' (ब्रसू. १.१.१),
स्वस्ति नो मिमीतामश्‍विना भगः' (ऋवे. ५.५१.११),
नह भोक्ष्यसे भोगन्, (काशिका ८.१.३१)
ऊर्ध्वं मुहूर्त्तात् कटं करोतु स्म भवान्, (काशिका ३.३.१६५)
शश्‍वदध्येष्यामहे, (सक. १.१.११८)
कच्चिदध्येष्यामहे। (सक. १.१.११८)
(१.२ अधिकारार्थाः) अथ, अथो, यावत्, तावत्, अनु, पुनः, पश्‍चाद्, भूय इत्यधिकारार्थाः। यथा—
अथ शब्दानुशासनम्, (मभा. १.१.१)।
Full Table of Contents Next (Ch. 2) →