Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 25 of 40 (Verses 30 shown)
(४) व्रताद् भोजने तन्निवृत्तौ च। यथा पयो व्रतयति, वृषलान्नं व्रतयति—
अतोऽवमम्यते करण इत्यनेनाऽनवधारितविशेषो धात्वर्थः प्रत्ययाभिधेयतयाऽधिक्रियत' इति।
एवं तर्हि 'सविशेषणस्यैव क्रियाविशेषस्य प्रत्ययेनोक्तत्वाद् अभिषेणयत्यादिषु उपसर्गप्रयोगो न प्राप्नोति, यथा श्येन इवाचरति श्येनायत बाष्पमुद्‌वमति बाष्पायते, हस्तेन निरस्यति हस्तयते एवं पादयते' इति
भवेदेतत् यत्रैक एव प्रत्ययार्थः। यथा— उपमानादाचारे (३.१.१०), 'बाष्पोष्मभ्यामुद्‌वमने (३.१.१६), अङ्गान्निरसन इति।
इह तु बहवः प्रत्ययार्थाः। यथा— 'पुच्छादुददसने व्यसने पर्यसने च', 'भाण्डात् समारचने विभजने च', 'चीबरादर्जने परिधाने च, मुण्डादिभ्यः 'तत्करोति, तदाचष्टे, तेनातिक्रामति' इत्यादाविति, तत्र उपात्तस्यापि क्रियाविशेषस्य प्रत्ययतो रूपसामान्यादनवधारणे तदवच्छेदायोपसर्गविशेषः प्रयुज्यते। यथा प्रत्ययार्थविशेषणपक्षे मनःशब्दादुत्पन्नेन क्यङैवोपसर्गार्थविशिष्टप्रत्ययाभिधाने 'सुमनायते,' 'दुर्मनायते', 'अभिमनायत' इति सुदुरभयः प्रयुज्यन्ते।
एवं तर्हि 'हस्तिनातिक्रामत्यतिहस्तयती'—त्यादिवत् 'श्‍वेताश्‍वमाचष्टे श्‍वेतयति', 'अश्‍वतरमाचष्टे अश्‍वयति', 'गालोडितमाचष्टे गालोडयति' 'आह्वरकमाचष्टे
आह्वरयति' इत्यादावाङ्प्रयोगः प्राप्नोति।
नैवम्, अत्राडः सहाऽभिधायकत्वात्। न हि क्रामतीत्यादिवच् चष्टे इत्यस्यैकाकिनः स्वार्थाऽभिधाने सामर्थ्यमस्ति। अतो विशेषकत्वमेवैषाम्, न वाचकत्वमिति ॥
अथ सहाभिधायकाः, यथा— प्रस्नुते, प्राणिति, प्रञ्चते, प्राप्नोति, संग्रामयते, संचष्टे, संरम्भते, संधुक्षयति, अनुरुध्यते, विक्लबते, विलोकते, विश्राणयति, आचष्टे, आशास्ते, आचामति, आतङ्कयति, निद्रायति, नियमयते, अधीते, अध्येति, अभिवादयते, परिष्वजते, उज्जासयति, उत्तंसयति' इति।
कार्यार्थाः। यथा— 'विजयते, पराजयते, न्यविक्षत, समगंस्त, अन्वकरोत्, पराकरोत्, विरराम्, उपरराम, उदसिष्यति, उदसिष्यते, अपस्किरते, प्रतिचस्कार, उपस्कुरुते, प्लायते, प्रार्षभीयति, निष्टपति, अभिषेणयति, विषहते, परिष्वजते, विष्णवति, प्रहिणोति, प्रणश्यति, परिणेष्यति, अन्तर्णयति' (काशिका ८.३.६५)
निरर्थकाः, यथा— प्रारभते, प्रलम्बते, प्रसूयते, प्रयच्छति, अपहरति, अपत्रपते, अपह्नुते, अभिषुणोति, निमीलति, निवार्यते, निष्ठीवति, निमज्जति, निखञ्जति, विगाहते, विराजते, विजानाति, विनश्यति, विकत्थते, विदीर्यते, आश्रयति, आश्‍लिष्यति, संयुज्यते, अध्यागच्छति, पर्यागच्छति इति ॥
(५. अव्ययप्रातिपदिकेषु कर्मप्रवचनीयाः —११)
प्रादय एव क्रियाविशेषोपजनितसंबन्धावच्छेदहेतवः कर्म्मप्रवचनीयाः। यदाह—
क्रियाविशेषजन्यानां संबन्धानां प्रकाशने।
कर्म्मप्रवचनीयाः स्युर्निमित्तमवधारिताः ॥ ३८ ॥ इति।
(संवादी चाऽत्र भर्तृहरिः वाक्यपदीये २.१९९, २.२०४ कारिकाभ्याम्)
कर्मप्रवचनीयसंज्ञाधिकारे 'अनुप्रभृतयः शब्दा एकादश, लक्षणादयोऽर्था द्वाविंशति। तद्‍यथा 'अनुर्लक्षणे, तृतीयार्थे, हीने (१.४.८४—८६), लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (१.४.९०), अभिरभागे (१.४.९१), प्रतिः प्रतिनिधिप्रतिदानयोः (१.४.९२), अधिपरी अनर्थकौ (१.४.९३), सुः पूजायाम् (१.४.९), अतिरतिक्रमणे (१.४.९), अपिः पदार्थसंभावनाऽन्ववसर्ग—गर्हा—समुच्चयेषु (१.४.९६), अधिरीश्‍वरे (१.४. ९७), विभाषा कृञि (१.४.९८)।
एवम् 'अनु', उप, अप, परि, आङ्, प्रति, अभि, अधि, सु, अति अपि' इत्येकादश शब्दाः।
हेतु—१लक्षणम्, २सहार्थः, हीनता३, ४आधिक्यम्, ५वर्जनम्, ६मर्यादावचनम्, लक्षणम्७, इत्थम्भूताख्यानम्८, भागः९, वीप्सा१०, प्रतिनिधिः११, प्रतिदानम्१२, आनर्थक्यम्१३, पूजा१४, अतिक्रमणम्१५, पदार्थः१६, संभावना१७, अन्ववसर्गः१८, गर्हा१९, समुच्चयः२०, स्वाम्यम्२१, अधिकारः२२, इति द्वाविंशतिरर्थाः।
तत्राऽनुः सप्तार्थः, प्रतिपरी षडर्थौ, अपिः पञ्चार्थः, अध्यभी ञ्यर्थौ, उपाती द्वयर्थो, आङपसव एकार्थाः' इति। तेषु—
अनुः हेतु१—लक्षण२—सहार्थ३—हीनता४—५लक्षणेत्थंभूताख्यान—भाग६—वीप्सासु७ कर्मप्रवचनीयः। तद्‌योगे द्वितीया यथा— 'शाकल्यस्य संहितामनुप्रावर्षत्' पर्वतमन्ववसिता सेना, अनुशाकटायनं वैयाकरणाः, वृक्षमनु विद्योतते विद्युत्, साध/?/ /?/र्देवदत्तो मातरमनु, यदत्र मामनुस्यात्, वृक्षं वृक्षमनुतिष्ठति' इति।
क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः।
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः।
तथाहि शाकल्यस्य संहितामनु प्रावर्षदिति संहिताप्रवर्षणयोर्हेतुफलभूतयो— र्लक्ष्यलक्षणभावो निशमयतिक्रियोपजनित इत्यनुना प्रकाश्यते 'शाकल्यस्य संहितामनु निशम्य प्रावर्षत्' इति। एवमन्यत्राऽप्यवगन्तव्यम्। इत्यनुः सप्तार्थः।
Full Table of Contents Next (Ch. 2) →