उक्तमत्राऽऽचार्यैः।
किमुक्तम् ?
कस्यचित् खञ्जो निर्ज्ञातः, कस्यचित् कुब्ज इति प्रधानोपसर्जनभावाद् भवत्येव विशेष्य—विशेषणभावः। अपि च— (वाक्यपदीये ३.१४.४७)
सम्बन्धिशब्दः सापेक्षो नित्य सर्वः प्रवर्त्तते।
स्वार्थवत् सा व्यपेक्षाऽस्य वृत्तावपि न हीयते ॥ ४७ ॥ (इति)
यथा— पितुः पिता पितामहो देवदत्तस्येति। इह तु सूक्ष्मजट इत्येतदन्यपदार्थ एवाम्नायते। नतमित्येतदपि क्रियाभिधायित्वेन गुणवचनत्वादाश्रितमेव भवति। सु इत्येतत् पुनरव्यं शोभनार्थे वर्त्तमानं समस्यते। तस्य चास्तां द्रव्यवचनत्वम्, गुणवचनत्वेऽपि विप्रतिपत्तिः, अव्ययानां सत्त्वार्थवाचित्वात्।
केचित् पुनस्तत्रापि विवन्दन्ते— द्योतका हि किलैते, न वाचका इति। समासश्च 'सुप् सुपा' इति द्योतकानामपि भवति। मा भूत् पूर्वयोः कर्मधारयः, अन्त्ये पुनरन्तशब्दस्य सम्बन्धिशब्दत्वेन भ्रातृभार्यादिवत् कथं न तत्पुरुष ?
उच्यते,
यद्यपि संबन्धिशब्दाः सापेक्षत्वेऽपि समस्यन्ते तथापि सन्देहविपर्य्यासादयो न जायन्ते तत्रैव तदुत्पत्तिः। अत्र तु अन्तशिति रन्ध्राणीत्युक्ते सन्देहः— 'किमन्तेषु शितिरन्ध्राण्यस्य, उत 'अन्तशितीनि रन्ध्राणी' ति। अथ यदा 'सुष्ठु सूक्ष्मजटाः केशा अस्ये'—ति विग्रहः, तदा भवितव्यं पूर्वपदयोः कर्मधारयेण।
न भवितव्यम्।
किं कारणम् ?
स्वरे दोषः स्यात्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरं बधित्वा समासस्यान्त उदात्त इत्यन्तरङ्गत्वादवयवसमासस्वरः प्राप्नोति।
तदाह—(वाप. ३.१४.५७)
सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि।
स्यात् स्यात् तत्राऽन्तरङ्गत्वाद् बाधकोऽवयवस्वरः ॥ ४८ ॥
अतश्च यत्र द्वे अपि विशेषसंज्ञे तत्रोत्तरपदे नित्यमेव द्विगुर्द्वन्द्वश्च समासो भवति। तद् यथा— 'पञ्चगवप्रिय' इति 'छत्रोपानहप्रिय' इति। यत्र किञ्चित् सामान्यं कश्चिच्च विशेषः तत्र विकल्पेन। यथा— राजगवीक्षीरम्, राजगोक्षीरम् इति। यत्रैकतः सामान्यम्, अन्यतो विशेषः तत्र न भवत्येव। यथा— 'सुसूक्ष्मजटकेशेन सुनताजिनवाससा' इति। अत्र बहुव्रीहिरिति विशेषसंज्ञायामवयवयोः 'विशेषणं विशेष्येण बहुलम् (२.१.५७) इति या समाससंज्ञा सा 'सुप्सुपा' इति तत्पुरुषादिभेदाऽपरामर्शेन भवन्ती सामान्यसंज्ञेत्युच्येत।
ननु 'द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् इति महावार्त्तिककारः, अयमपि च तत्पुरुष एवेति कस्मादिहापि समासो न भवति ?
उत्तरपदोपादानात्। य उत्तरपद एवाम्नायते सोऽत्र तत्पुरुषो ग्रहीतव्यः, यथा 'द्वयह्नजातः', 'पञ्चगवधन' इति। द्वन्द्वः पुनरनुत्तरपद एवेति बहुव्रीहिविषयेणोत्तरपदेन सर्व एव गृह्यते। किमर्थं पुनरेवमुच्यते यावता बहुलग्रहणेनैव सिद्धम्, समुदायवृत्त्याववयवानां मा कदाचिद् वृत्तिर्भूदिति।
तथापि न वक्तव्यम्। इह द्वौ पक्षौ (१) वृत्तिपक्षश्च (२) अवृत्तिपक्षश्च। यदा वृत्तिः तदा सर्वेषां वृत्तिः, यदा तु न वृत्तिस्तदा सर्वेषामवृत्तिरिति।
नैवम्। अस्त्यत्र विशेषः। तथाहि पञ्चगवप्रिय इत्यादौ नास्य पञ्चसंख्यामात्रं प्रियं, नापि गोमात्रम्, किं तर्हि पञ्चसंख्योपलक्षिताः काश्चिदेव गावः, यथा पञ्चाम्राः सप्तर्षय इति। तच्च द्विगौ पूर्वमसति दुरुपपादमेव भवति। एतेन छत्रोपानहप्रिय इत्येतदपि व्याख्यातम्, तत्रापि युगपदधिकरणवचनद्वन्द्वमन्तरेण नाभिवाञ्छितसिद्धिः। न ह्यस्योपनन्मात्रमेव प्रियम् अपितुछत्रमपि, उपानच्छब्दादेव च परः प्रियशब्दो निशम्यमानः न द्वन्द्वं विना छत्रमुपग्रहीतुं शक्नोति। तस्मादनाक्षेप इति।
'सुसूक्ष्मजटकेशादिना च मत्तबहुमात्तङ्गं वनम्' इत्यादावप्यनेकमेव पदमित्युक्तं भवति। अत्रापि मत्ता बहव एव मातङ्गा इत्यापि न भवति।
किं कारणम् ?
'बहुगणवतुडति' संख्या (१.१.२३) इति बहुशब्दस्य संख्यावाचित्वात्, संख्यापूर्वस्य च कर्मधारयस्य, द्विगुत्वात्, द्विगोः पुनः 'तद्धितार्थोत्तरपदसमाहारे'— (२. १.५१) ष्वेव भावात्, यथा'पञ्चकपालः, त्रिलोकहर्म्यम्, पञ्चपूली' इति।
कथं तर्हि 'सप्तर्षयः पञ्चाम्रा' इति ?
'दिक्संख्ये संज्ञायाम्' (२.१.५०) इति संज्ञायामेव तद् भवति।
ननु च मा भूत् तद्धितार्थ उपपदं वा, तथापि 'बहुमातङ्गमि'—ति समाहारे भविष्यति—बहवो मातङ्गाः समाहृताः बहुमातङ्गम्, ततश्च 'मत्तं बहुमातङ्गमस्मिन् वने तन्मत्तबहुमातङ्गं वनमिति बहुव्रीहिर्भविष्यति।
उच्यते।
अथ समाहार इति कः शब्दार्थः ?
ननु समाङ्पूर्वाद्धरतेः कर्मणि घञ् 'समाह्रियत इति समाहार' इति।
यद्येवं पञ्च कुमार्यः समाहृताः पञ्चकुमारि, दशकुमारि इति