Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 16 of 40 (Verses 30 shown)
'अ, इ, उ, ए, ओ, आ, ई, ऊ' इत्यनुकम्पार्थाः।
किम्, नु, नूनम्, आहो, उत, स्वित्, वा, इव इति वितर्कार्थाः।
यथा— किमयं स्थाणुः किं पुरुषः,
अहिर्नु रज्जुर्नु, (काशिका ८.२.९८)
न नूनमस्ति नो श्‍वः, (ऋवे. १.१७०.१, निरुक्तम् १.६.२)
पद्ममेतन्मुखं स्विद् भाति,
हन्ताहं पृथिवीमिमां निदधानीह वेह वा, (ऋवे. १०.११९.९, निरुक्तम्. १.४.२३)
ताम्यतीव मे वत्सो मकरन्दः (मामा ३.१८) इति।
सत्यम्, किम्, हि, कच्चित्, एवम्, अपि, अथ, उत इति प्रश्नार्थाः। यथा—
सत्यं भोक्ष्यसे?, (काशिका ८.१.३२)
कटं करिष्यसि हि?, (काशिका ८.२.९३)
कच्चिज्जीवति मे माता?, (काशिका ३.३.१५३)
अपि क्रियार्थं सुलभं समित्कुशम्, (कुसं. ५.३३)
उत दण्डः पतिष्यति? (काशिका ३.३.१५२) इति।
Full Table of Contents Next (Ch. 2) →