(३. अनुकरणप्रातिपादिकम् —६)
शब्दस्य ताद्रूप्येणाभिधानमनुकरणम्।
यदाह—व्यक्ताऽव्यक्त—वर्ण—पद—वाक्य— सादृश्योक्तयोऽनुकरणानि। तत्र —
१. व्यक्तवर्णसादृश्योक्तिर्यथा— (सक. २)
छिन्नेन पतता वह्नौ यन्मुखेन हठात्कृते।
स्वेति हेति हरेणोक्तेः स्वाहासीत् सैव रावणः ॥ ३९ ॥
२. व्यक्तपदसादृश्योक्तिर्यथा— (काद. २.१४७)
गच्छेति वक्तुमिच्छामि मत्प्रिय! त्वत्प्रियैषिणी।
निर्गच्छति मुखाद् वाणी मा गा इति करोमि किम् ॥ ४० ॥
३. व्यक्तवाक्यसादृश्योक्तिर्यथा— (उराच. १)
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमतः परेण ॥ ४१ ॥
४. अव्यक्तवर्णसादृश्योक्तिर्यथा
गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत् प्रावृषि कालमेघाः।
अपश्यती वत्समिवेन्दुबिम्बं तच्छर्वरी गौरिव हुङ्करोति ॥ ४२ ॥
५. अव्यक्तपदसादृश्योक्तिर्यथा—
चटच्चटिति चर्मणि च्चिमिति चोच्चलच्छोणिते धगद्धगितिमेदसि स्फुटरवोऽस्थिषु ष्ठागिति।
पुनातु भवतो हरेरमरवैरिराजोरसि क्वणत्करजपञ्जरक्रकचकाषजन्मानलः ॥ ४३ ॥
६. अव्यक्तवाक्यसादृश्योक्तिर्यथा—
पिपिप्रिय ससस्वयं मुमुमुखासवं देहि मे ततत्यज दुदुद्रुतं भभभाजनं काञ्चनम्।
इति स्खलितजल्पितं मदवशात् कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत ॥ ४४ ॥
एतेन यानि साधून्यर्थवन्ति पदानि, यानि च वाक्यानि, यच्चाशक्तिजम् असाधु शब्दरूपम्, ये चापभ्रंशाः, ये चानर्थका वर्णाः, याश्चाव्यक्तवर्ण— पदवाक्योक्तयः, तदनुकरणानां साधुत्वमुपपत्रं भवति, न प्रतिषिद्धस्य, यो ह्येवमसौ ब्राह्मणं हन्तीति तस्यानुकुर्वन् ब्राह्मणं हन्यात् सोऽपि मन्ये पतितः स्यात्।
नैवम्,
यश्च ब्राह्मणं हन्ति, यश्चानुहन्ति, उभौ तौ हतः, यस्तु खल्वेवमसौ ब्राह्मणं हन्तीति तस्याऽनुकुर्वन् कदलीस्तम्भं छिन्द्यान्न स मन्ये पतितः स्यादिति। न चानुकरणमपशब्दः। अन्यो ह्यसावपशब्दपदार्थकः साधुशब्दः, न चापशब्दपदार्थकः शब्दोऽपशब्दो भवति, अपशब्द इत्येतस्याप्यपशब्दत्वप्रसङ्गात्। यः पुनरेवमसावपशब्दं प्रयुङ्क्ते इति तस्यानुकुर्वन्नपशब्दमभिधेयेषु प्रयुङ्क्ते सोऽपशब्दकार्येव भवतीति।
(४. कृत्प्रातिपदिकम् —६)
भावकारकाभिधायिनो धातुप्रत्ययाः कृतः।
ते षोढा— १. लिङ्गिनः २. अन्यलिङ्गिनः ३. स्वलिङ्गिनः ४. अलिङ्गिनः ५. शक्त्याद्यपेक्षिणः ६. अनुप्रयोगाद्यपेक्षिणश्च। तेषु —
१. द्रव्यवचना अणादयो लिङ्गिनः। यथा— कुम्भकारः, पङ्कजम्, धात्री, दात्रम्, कारुः, कृकवाकुः इति।
२. गुणवचना ण्वुलादयोऽन्यलिङ्गिनः। यथा— कारकः, कारिका, कारकम्, दर्शनीयः दर्शनीया, दर्शनीयम् इति।
३. उत्पत्तावपेक्षितनियतलिङ्गाः 'स्त्रियां क्तिन् (३.३.९४) इत्येवमादयः स्वलिङ्गिनः। यथा— पक्तिः पचनम्, पाकः, व्रजः, शय्या, सुप्तम्, इति।