Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 30 of 40 (Verses 30 shown)
४. असत्त्वभूतार्थत्वेनानुपगृहीत—लिङ्ग—संख्या—शक्तय—स्तुमुनादयोऽलिङ्गिनः। यथा— कालो भोक्‍तुम्, अलं कृत्वा, खलु प्रहृत्य, नावगाहे, ईश्‍वरोऽभिचरितोः, ईश्‍वरो विलिखः इति।
५. शक्तिहेतुमल्लक्ष्यक्रियाद्यपेक्षाः शत्रादयः शक्त्यापेक्षिणः। यथा— व्रजता कृतम्, क्रियमाणं पश्य, आवर्जयन् वसति, चङ्क्रम्यमाणोऽधीते, पक्ष्यन् व्रजति, भोजको व्रजति इति।
६. अपेक्षितानुप्रयोगतद्धिताद्यनुषङ्गा णमुलादयोऽनुप्रयोगाद्यपेक्षिणः। यथा— रैपोषं पुष्यति, चोरङ्कारमाक्रोशति, कारयाञ्चकार, कृत्त्रिमम्, व्यावक्रोशी, सांराविणम् इति।
(५. तद्धितप्रातिपदिकम् —६)
भावकारकसंबन्धिस्वार्थाभिधायिनोऽधातुप्रत्ययास्तद्धिताः। ते षोढा— १. अलोपिनः, २. लोपिनः, ३. सर्वलोपिनः, ४. आदेशिनः, ५. प्रदेशिनः, ६. अप्रदेशिनश्‍चेति।
१. निरनुबन्धा अलोपिनः। यथा 'अश्‍वत्वम्, अश्‍वकः, अश्‍वत्थामा, सभ्यः, सख्यम्, देवदत्तरूप्य इति।
२. सानुबन्धा लोपिनः। यथा ब्राह्मण्यम्, मृत्तिका, दाक्षिः, वैयाकरणः, स्तेयम्, कैदार्यम् इति।
३. (सर्वलोपिनः) येषां लुग्लुपादिभिः किमपि नावतिष्ठते ते सर्वलोपिनः। यथा—गर्गाः, चरकाः, पञ्चालाः, चञ्चा, गार्गी, सामग्री इति।
४. (आदेशिनः) येषामायन्नादय आदिश्यन्ते ते आदेशिनः। यथा— ऐतिकायनः, कापेयम्, आत्मनीनम्, अश्‍वीयम्, क्षत्रियः शाश्‍वतिकम् इति।
५. (प्रदेशिनः) प्रकृतेरादिमध्यविषयाः प्रदेशिनः। यथा— बहुतृणम्, बहुराजा, सर्वकः, उच्चकैः, त्वयका, पचतकि इति।
६. (अप्रदेशिनः) तस्या एवान्त्यावयवभूता अप्रदेशिनः। यथा— वाक्त्वचम्, प्रत्युरसम्, केशाकेशि, युवजानिः, सरजसम्, निष्प्रवाणिः इति।
पृथगर्थानामेकार्थीभावः समासः।
स षोढा— १. सुबन्ताभ्याम्, २. तिङन्ताभ्याम्, ३. सुप्तिङन्ताभ्याम्, ४. सुब्धातुभ्याम्, ५. सुबन्तनामभ्याम्, ६. नामभ्याञ्चेति। तेषु—
१. सुबन्ताभ्यां यथा— उपकुम्भम्, राजपुरुषः, नीलोत्पलम्, अष्टाकपालः, चित्रगुः, धवखदिरौ इति।
अत्र 'समर्थः पदविधिः' (२.१.१) इति सामर्थ्ये सति समासः। सामर्थ्यं च सम्बन्धः। स च द्वयोरुपसर्जनप्रधानभावे भवति। न हि प्रधानयोरुपसर्जनयोरेव वा मिथोऽनपेक्षयोः संबन्धो घटते।
प्रधानोपसर्जनभावश्‍च द्विधा (१) अभिधीयमानः (२) प्रतीयमानश्‍च।
अभिधीयमानो व्यतिरेकविभक्तिः, यदा वैयधिकरण्यम् 'कुम्भस्य समीपम्, राज्ञः पुरुष' इति।
तत्रोपकुम्भमिति पूर्वपदप्रधानोऽव्ययीभावः।
राजपुरुष इत्युत्तरपदप्रधानस्तत्पुरुषः।
प्रधानमविचलितस्वार्थं प्रथमयैवाभिधीयते,
उपसर्जनं पुनः प्रधानाऽनुग्रहायाश्रितव्यतिरेकं षष्ठ्यादिभिः। इदं च सुबन्तत्वं एव भवति।
प्रतीयमानस्तुल्य़विभक्तिः, यदा सामानाधिकरण्यम्— 'नीलं च तदुत्पलं च नीलोत्पलम्, अष्टसु कपालेषु संस्कृतोऽष्टाकपाल इति।
अयं च 'विशेषणं विशेष्येणे—(२.१.५७)—ति कर्मधारयः।
'संख्यापूर्वः (२.१.५२), 'तद्धितार्थोत्तरपदसमाहारे—च' (२.१.५१) इति च द्विगुत्वं विशेषण—विशेष्यभावेन प्रतीयमानोपसर्जनप्रधानभावयोः सामानाधिकरण्ये स्मर्यते। स च तुल्यविभक्तित्वे स्यादिति सुबन्त एव भवति। अतश्‍च सर्वत्र सुबन्तेन सब सुबन्तं समस्यते इति स्मर्यते।
२. तिङन्ताभ्यां यथा—अश्‍नीतपिबता, खादतमोदता, पचतभृज्जता, उन्मृजावमृजा, आवपनिवपा 'एहि—रे—आहि रे(रा) इति।
अत्र 'आख्यातमाख्यातेन क्रियासातत्ये' (२.१.७२ गसू.) इति 'मयूरव्यंसका' दिपाठात् (२.१.७२) तिङन्तानां समासः स्मर्य्यते। 'अश्‍नीत' 'पिबते'त्यादि यासु क्रियासु सातत्येन विद्यते ता एवमुच्यन्ते। तन्मध्यपतितस्तद्ग्रहणेन गृह्यत' इति 'उदादीनां रे' इत्येतस्य चाख्यातत्वं भवति ॥
३. सुप्तिङन्ताभ्यां यथा— अपचसि, प्रावर्षत्, अनुव्यचलत्, अस्तिक्षीरा, एहिवाणिजा, जहिस्तम्बः इति। अत्र 'सह सुपा (२.१.४) इत्यत्र तृतीययैव सहार्थस्याक्षेपे सहग्रहणादतिरिक्‍ताद् योगविभागाश्रणेन सुबन्ततिङन्ताभ्यां। समासः क्रियते। स च नञो नलोपस्तिङ्यवक्षेपे (पा. ६.३.७३ वा.), इति उदात्तवता तिङा गतिमता च' (२.२.१८ भाष्ये) इति, 'सुबधिकारेऽस्तिक्षीरा' दिवचनम् (२.२.२४वा.) 'एहीडादयोऽन्यपदार्थे' (२.१.७२ गसू. १८.१), जहिकर्मणा बहुलमाभीक्ष्णये समस्यते कर्त्तारं चाभिदधातीत्युपपन्नो (२.१.७२ गसू. १८.१) भवति। तेनायमर्थः संगच्छते 'अवक्षिप्तोऽसि न पचसि त्वमभिहितोऽपि वृषल इति, प्रकर्षेणावर्षदिति, पश्‍चाद् विशिष्टं चलनमकरोदिति, अस्ति क्षीरमस्या' इति, एहि वाणिजेत्यामन्त्र्यमाण— वाणिजविशिष्टा क्रियेति, जहि जहि स्तम्बमिति कर्त्ता योऽभिधीयते स एवमुच्यत इति।
४. सुब्धातुभ्यां यथा— संग्रामयते, अनुरुध्यते, श्रद्धा, अन्तर्धिः, परमनियौ, प्रतिभुवौ इति। अत्र 'संग्राम युद्धे अनुरुध कामे इति समस्तयोरेव पाठः। आतश्‍चोपसर्गे (३.३.१०६), उपसर्गे घोः किः (३.३.९२) इति अङ्—किविधाने 'प्रादिषु श्रदन्तरोरुपसंख्यानम्' 'अचि श्‍नुधातुभ्रुवां य्वोरियङुवङौ' (६.४.७७) इत्यादिकार्यसिद्धये क्विबन्तस्य प्रत्ययनामधातुत्वाद् धातुत्वमिति सुब्धातुभ्यां समासो भवति ॥
Full Table of Contents Next (Ch. 2) →